________________
क्रियते सन्ध्याप्रतिक्रमणावसरे वेति निर्णयो बहुश्रुतगम्य इति”। प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्व सचित्तादिचतुर्दशनियमग्रहणं स्यात्, अप्रतिक्रामकेनापि सूर्योदयात्प्राक् चतुर्दशनियमग्रहणं यथाशक्ति नमस्कारसहितग्रन्थिसहितादिद्व्यासनकाशनादियथागृहीतसञ्चित्तद्रव्यविकृतिनैयत्यादिनियमोचारणरूपं दे
शावकाशिकं च कार्यमिति श्राविधिवृत्तिलिखितानुवादः । क्षोदक्षमश्चायं, यतो नमस्कारसहितपौरुष्यापादिकालप्रत्याख्यानं सूर्योदयात्प्रागेवोचारयितुं युक्तं, नतु तत्पश्चात्, कालप्रत्याख्यानस्य 'सूरे उग्गए' इति पाठ-18 बलात् सूर्योदयेनैव संबहत्वसिद्धेः, शेषाणि सङ्केतादीनि तु पश्चादपि कृतानि शुध्यन्ति, यतः श्राद्धविधिवृत्तौ "नमस्कारसहितपौरुष्यादिकालप्रत्याख्या सूर्योदयात् प्राग् यद्युच्चार्यते तदा शुध्यति, नान्यथा, शेष-| प्रत्याख्यानानि सूर्योदयात्पश्चादपि क्रियन्ते, नमस्कारसहितं यदि सूर्योदयात्प्रागुच्चारितं तदा तत्पूर्तेरन्वयि पौरुष्यादिकालप्रत्याख्यानं क्रियते खखावधिमध्ये, नमस्कारसहितोच्चारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुध्यति, यदि दिनोदयात्प्राग नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेरूद्धमपरं कालप्रत्याख्यानं न शुध्यति, तन्मध्ये तु शुध्यतीति वृद्धव्यवहारः । श्रावकदिनकृत्येऽपि-"पच्चक्खाणं तुजं तंमी ति गाथार्थपर्यालोचनयेयमेव वेला प्रतिपादिता संभाव्यते । प्रवचनसारोद्धारवृत्तावपि 'उचिए काले विहिण'त्ति गाथाव्याख्यायां "उचितकाले विधिना प्राप्तं यत् स्पृष्टं तद्भणितं, इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगववुध्यमानः सूर्ये अनुद्गत एव खसाक्षितया चैत्यस्थापनाचार्यसमक्षं वा खयं प्रतिपन्नविवक्षि-४
Jain Education
a
l
For Private & Personel Use Only
IR
.jainelibrary.org