SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ क्रियते सन्ध्याप्रतिक्रमणावसरे वेति निर्णयो बहुश्रुतगम्य इति”। प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्व सचित्तादिचतुर्दशनियमग्रहणं स्यात्, अप्रतिक्रामकेनापि सूर्योदयात्प्राक् चतुर्दशनियमग्रहणं यथाशक्ति नमस्कारसहितग्रन्थिसहितादिद्व्यासनकाशनादियथागृहीतसञ्चित्तद्रव्यविकृतिनैयत्यादिनियमोचारणरूपं दे शावकाशिकं च कार्यमिति श्राविधिवृत्तिलिखितानुवादः । क्षोदक्षमश्चायं, यतो नमस्कारसहितपौरुष्यापादिकालप्रत्याख्यानं सूर्योदयात्प्रागेवोचारयितुं युक्तं, नतु तत्पश्चात्, कालप्रत्याख्यानस्य 'सूरे उग्गए' इति पाठ-18 बलात् सूर्योदयेनैव संबहत्वसिद्धेः, शेषाणि सङ्केतादीनि तु पश्चादपि कृतानि शुध्यन्ति, यतः श्राद्धविधिवृत्तौ "नमस्कारसहितपौरुष्यादिकालप्रत्याख्या सूर्योदयात् प्राग् यद्युच्चार्यते तदा शुध्यति, नान्यथा, शेष-| प्रत्याख्यानानि सूर्योदयात्पश्चादपि क्रियन्ते, नमस्कारसहितं यदि सूर्योदयात्प्रागुच्चारितं तदा तत्पूर्तेरन्वयि पौरुष्यादिकालप्रत्याख्यानं क्रियते खखावधिमध्ये, नमस्कारसहितोच्चारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुध्यति, यदि दिनोदयात्प्राग नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेरूद्धमपरं कालप्रत्याख्यानं न शुध्यति, तन्मध्ये तु शुध्यतीति वृद्धव्यवहारः । श्रावकदिनकृत्येऽपि-"पच्चक्खाणं तुजं तंमी ति गाथार्थपर्यालोचनयेयमेव वेला प्रतिपादिता संभाव्यते । प्रवचनसारोद्धारवृत्तावपि 'उचिए काले विहिण'त्ति गाथाव्याख्यायां "उचितकाले विधिना प्राप्तं यत् स्पृष्टं तद्भणितं, इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगववुध्यमानः सूर्ये अनुद्गत एव खसाक्षितया चैत्यस्थापनाचार्यसमक्षं वा खयं प्रतिपन्नविवक्षि-४ Jain Education a l For Private & Personel Use Only IR .jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy