________________
धर्म
॥ १२४ ॥
त्प्रत्याख्यानं, यतः श्राडदिनकृत्ये "छण्हं तिहीण मज्झमि का तिही अज्ज वासरे ? । किं वा कल्लाणगं अज्ज ?, लोगनाहाण संतिअं ॥ १ ॥ पच्चक्खाणं तु जं तंमि, दिगंमि गिहियव्वयं । चिंतिकणं सुसहो उ, कुणइ अण्णं तओ इमं ॥ २ ॥” ति, अथ च यो न प्रतिक्रामति तेनापि रागादिमयकुस्खमप्रद्वेषादिमयदुःस्वप्नयोरनिष्टसूचकतादृक्स्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलम्भेऽष्टोत्तरशतोच्छ्वासमानोऽन्यथा तु शतोच्छ्छासमानः कायोत्सर्गः कार्यः । यदुक्तं व्यवहारभाष्ये - "पाणिवह १ मुसावाए २, अदत्त ३ मेहुण ४ परिग्गहे सुविणे । सयमेगं तु अणूणं, ऊसासाणं झविज्जाहि ॥ १ ॥ महव्वयाइं झाइज्जा, सिलोगे पंचवीसई । इत्थीविप्परिआसे, सत्तावीसे सिलोइओ ॥ २ ॥ प्राणिवधादिचतुष्के खमे कृते कारितेऽनुमोदिते च मैथुने तु कृते द्वितीयगाथोत्तराद्धेऽष्टोत्तरशतोच्छ्वासोत्सर्ग स्योक्तत्वात् कारितेऽनुमोदिते च शतमेकमन्यूनमुच्छ्वासानां क्षपयेत्-पञ्चविंशत्युच्छ्वासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेदिति भावः । १ । अथवा महाव्रतानि दशवैकालिकतबद्धानि कायोत्सर्गे ध्यायेत्, तेषामपि प्रायः पञ्चविंशतिश्लोकमानत्वात्, अथवा यान् तान् वा स्वाध्यायभूतान् पञ्चविंशतिं श्लोकान् ध्यायेत्" इति तद्वृत्तौ । आद्यपञ्चाशक वृत्तावपि " जातु मोहोदयात्कुस्वप्ने स्त्रीसेवादिरूपे तत्कालमुत्थायेर्यापथिकी प्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छ्वासप्रमाणः कायोत्सर्गः कार्यः” इति । श्राद्धविधौ त्वयं विशेषः - "कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग् बहुनिद्राप्रमादे पुनरेव कायोत्सर्गः क्रियते, जातु दिवाऽपि निद्रायां कुखमाद्युपलम्भे एवं कायोत्सर्गः कर्त्तव्यो विभाव्यते, परं तदैव
Jain Education International
For Private & Personal Use Only
संग्रह.
॥ १२४ ॥
www.jainelibrary.org