________________
Jain Education
पनिश्चयनयस्य शैलेशी चरमसमय एवं प्रवृत्तिसंभवात्, अत्र तु धर्मानुष्ठानपदव्युत्पत्तिनिमित्तग्राहकैवंभूतरूपनिश्चयनयस्याप्रमत्तसंयत एव प्रवृत्तिसंभवेन विरोधलेशस्याप्यनवकाशात् । हन्तैवं निरुपचरितो भावाभ्यासोऽप्रमत्तसंयतस्यैव, प्रमत्तसंयतदेशविरताविरतसम्यग्दृशां त्वापेक्षिकत्वेनौपचारिक एव प्राप्त इत्यपुनबन्धकस्यैवौपचारिक इति कथं युज्यते ? इति चेद्, यथा पर्यवनयव्युत्क्रान्तार्थग्राही द्रव्योपयोगः परमाणावेवापश्चिमविकल्पनिर्वचनः, तथा निश्चयनय व्युत्क्रान्तार्थग्राही व्यवहार नयोऽप्यपुनर्बन्धक एव तथेत्यभिप्रायादिति गृहाण । अत एव 'अपुनर्बन्धकस्यायं, व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु इत्युक्तं योगविन्दौ यत्त्वत्रापुनर्बन्धकस्याप्युपलक्षणत्वात् सम्यग्दृष्ट्यादीनामपि वृत्तौ ग्रहणं कृतं, तदपेक्षयैवेति तत्त्वम् । तदयं परमार्थः - निश्चयेनानुपचरितं धर्मानुष्ठानमप्रमत्तसंयतानामेव, प्रमत्तसंयतादीनां त्वपेक्षया निश्चयव्यवहाराभ्याम्, अपुनर्बन्धकस्य तु व्यवहारेणैव तेन सामान्यतो गृहिधर्मो व्यवहारेणापुनर्वन्धकापेक्षयैवेति स्थितमिति ] समभेदं सामान्यतो गृहिधर्ममभिधाय साम्प्रतं तत्फलं दर्शयन्नाहएतद्युतं सुगार्हस्थ्यं यः करोति नरः सुधीः । लोकद्वयेऽप्यसौ भूरि, सुखमाप्नोत्यनिन्दितम् ॥ १५ ॥
एतेनानन्तरोदितेन सामान्यगृहिधर्मेण युतं सहितं 'सुगार्हस्थ्यं' शोभनगृहस्थभावं 'यः' कश्चित्पुण्यसम्पन्नः 'सुधीः ' प्रशस्तबुद्धि: ' नरः, ' पुमान् 'करोति' विद्धाति 'असौ ' सुगार्हस्थ्यकर्त्ता 'लोकद्वयेऽपि इहलोकपरलोकरूपे, किं पुनरिह लोक एवेत्यपिशब्दार्थः ' अनिन्दितं ' शुभानुबन्धितयाऽगर्हणीयं, 'भूरि'
For Private & Personal Use Only
www.jainelibrary.org