________________
धर्म
॥ ११ ॥
Jain Education
यथोत्तरं प्रधानरूपं तुरेवकारार्थः यद्यदुत्तरं तदेव ततं ( तत्तदेव ) प्रधानमित्यर्थः । तत्र सतताभ्यासो नित्य| मेव मातापितृविनयादिवृत्तिः, विषयाभ्यासो मोक्षमार्गनायकेऽर्हल्लक्षणे पौनःपुन्येन पूजनादिप्रवृत्तिः, भावाभ्यासो भावानां सम्यग्दर्शनादीनां भवोद्वेगेन भूयो भूयः परिशीलनम् । १ । एतच्च द्विविधमनुष्ठानं, न युक्तिक्षमं नोपपत्तिसहं, निश्चयनययोगेन निश्चयनयाभिप्रायेण यतो मातापित्रादिविनयस्वभावे सतताभ्यासे सम्यग्दर्शनाद्यनाराधनारूपे धर्मानुष्ठानं दूरापास्तमेव, विषय इत्यनन्तरम् अपिर्गम्यः, विषयेऽपि अर्हदादिपूजालक्षणे विषयाभ्यासेऽपि, भावेन भववैराग्यादिना परिहीणं धर्मानुष्ठानं, कथं नु ? न कथंचि - दित्यर्थः, ओकारः प्राकृतत्वात्; परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य, निश्चयनयमते भावाभ्यास एव धर्मानुष्ठानं नान्यद्वयमिति निगर्वः । व्यवहारतस्तु व्यवहारनयादेशात्तु, युज्यते द्वयमपि, तथा २ तेन २ प्रकारे - णापुनर्बन्धकादिषु अपुनर्बन्धकप्रभृतिषु तत्रापुनर्बन्धकः पापं न तीव्र भावात्करोतीत्यायुक्तलक्षणः, आदिशब्दादपुनर्बन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजी मार्गाभिमुखमार्गपतितौ अविरतसम्यग्दृष्ट्यादयश्च गृह्यन्त इति । ननु तथापि धर्मसंग्रहिण्यां निश्चयनयमतेन शैलेशीचरमसमय एव धर्म उक्तः, तत्पूर्वसमयेषु (तु) तत्साधनस्यैव सम्भवः " सो उभयक्खयहेऊ, सीलेसी चरमसमयभावी जो । सेसो पुण णिच्छयओ, तस्सेव पसाहगो भणिउत्ति " वचनात् अत्र तु निश्चयतो धर्मानुष्ठानसंभवश्चाप्रमत्तसंयतानामेवेति कथं न विरोधः ? इति चेन्न, धर्मसंग्रहिण्यां धर्मस्यैवाभिधित्सितत्वेन तत्र धर्मपदव्युत्पत्तिनिमित्तग्राहकैवंभूतरू
For Private & Personal Use Only
संग्रह.
॥ ११ ॥
www.jainelibrary.org