SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॥१२२॥ CACARANASANSAR धनवपनाद्दर्शनप्रभावकतां परमां दुधानो दीनेषु चात्यन्तकृपापरो महाश्रावक उच्यते इत्यलं प्रसङ्गेन ॥ ५ ॥ इदानीं महाश्रावकस्य दिनचर्यारूपं उक्तशेष विशेषतो गृहस्थधर्ममाह_ नमस्कारेणावबोधः, स्वद्रव्याधुपयोजनम् । सामायिकादिकरणं, विधिना चैत्यप्रजनम् ॥६॥ 'नमस्कारेण सकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्टिभिरधिष्ठितेन 'नमो अरिहंताण'मित्यादिप्रतीतरूपेण 'अवयोधों निद्रापरिहारः, तत्पाठं पठन्निद्रां जह्यादित्यर्थः । अयं विशेषतो गृहिधर्मो भवतीत्येवमग्रेऽप्यन्वयः। तथा खस्मिन्-आत्मनि द्रव्यादेः-द्रव्यक्षेत्रकालभावानामुपयोजनम्-उपयोगकरणं, यथा-द्रव्यतः कोऽहं ? श्राद्धो|ऽन्यो वा, के मम गुरव इत्यादि,क्षेत्रता-कुत्र ? ग्रामे नगरे स्वगृहेऽन्यगृहे वा उपरि अधो वा वसामीति, कालतो रात्रिर्वा दिनं वेत्यादि, भावतः किंकुलः ? किंधर्मः, किंबतो वाऽस्मीत्यादिस्मरणं । अत्रायं विधिनिद्राच्छेदे-12 श्रावकेण तावत्वल्पनिद्रेण भाव्यं यथा पाश्चात्यरात्रौ स्वयमेवोत्थीयते, तथा सति ऐहिकामुष्मिककार्यसिद्ध्यादयोऽनेकगुणाः । न चेदेवं तदा पञ्चदशमुहर्ता रजनी, तस्यां जघन्यतोऽपि चतुर्दशे ब्राहये मुहर्ते नमस्कार स्मरन् उत्तिष्ठेत् , ततो द्रव्याशुपयोगं करोति, तथापि निद्रानुपरमे नासानिश्वासरोधं करोति, ततो विनिद्रः कायिकीचिन्तां करोति, कासितादिशब्दमपि उच्चवरेण न कुर्यात्, हिंसकजीवजागरणेन हिंसाचनर्थप्रवृत्तेः, न हसाचनकाय उत्तिष्टश्च वहमाननासिकापक्षीयं पादं प्रथमं भूम्यां दद्यादिति नीतिः । अत्र निद्रात्यागसमये आत्यन्तिकतहहुमानकार्यभूतं मङ्गलार्थ नमस्कारं अव्यक्तवर्ण स्मरेदिति विशेषः, यदाहु:-"परमेट्टिचिंतणं माणसंमि ॥१२२॥ Jain Educatio international For Private Personal use only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy