SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ कुशास्त्रजनितसंस्कारविषसमुच्छेदनमत्रायमाणो धर्माधर्मकृत्याकृत्यभक्ष्याभक्ष्यपेयापेयगम्यागम्यसारासारादिविवचनाहेतुः संतमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्मामाण्यादेव निश्चीयन्ते, यदूचुः स्तुतिं श्रीहेमसूरयः यदीयसम्यक्त्वबलात्प्रतीमो, भवादृशानां परमासभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ॥ १॥" जिनागमबहुमानिना च देवगुरुधदियोऽपि बहुमता भवन्ति, किश्च-केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते, यदाहुः “ओहे सुओवउत्तो, सुअनाणी जइहु गिण्हइ असुद्धं । तं केवलीवि भुंजइ, अपमाण सुअंभवे इहरा ॥१॥” एकमपि च जिनागमवचनं भविनां भवविनाशहेतुः, यदाहु:-"एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः ॥ १ ॥” यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यान्नं न रोचते जिनवचनं, तथापि नान्यत्वर्गापवर्गमार्गप्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण 8 श्रद्धातव्यं, यतः कल्याणभागिन एव जिनवचनं भावतो भावयन्ति, इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते, यदिचेदं जिनवचनं नाभविष्यत्तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकारे भुवनमपतिष्यत्, यथा च-'हरीतकी भक्षयेदिरेककाम' इति वचनाद्धरीतकीभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते; तथाऽष्टाङ्गनिमित्तकेवलिकाचन्द्रार्कग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैदृष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यं, जिनवचनं Jain Education For Private Personel Use Only Hrainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy