________________
॥११९॥
चेति, ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनगृहादिकरणमनुचितं, षट्जीवनिकायविराधनाहेतुत्वात्तस्य, इति चेन्न, "देहाइनिमित्तंपिहु, छक्कायवहंमि जे पयति। जिणपूआकायवहंमि तेसिमपवत्तणं मोहो ॥१॥” इति वचनात् य आरम्भपरिग्रहप्रसक्तस्तस्य कुटुम्बपरिपालनादिनिमित्तधनव्ययजनितपापविशुद्ध्यर्थं जिनभवनादौ धनव्ययस्य श्रेयस्करत्वात्, यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपनादिः, तस्य मा भूजिनबिम्बादिविधापनमपि, अन्यत्रारम्भवत एव धर्मार्थारम्भेऽप्यधिकृतत्वात्, नच धर्मार्थ प्रसह्य धनोपार्जनं युक्तं, यतः-"धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥” इति, यस्तु देहाद्यर्थमारम्भकृदपि नह्येकं पापमाचरितमित्यन्यदप्याचरितव्यमिति मत्या जिनभवनकारणादौ धार्मिककृत्येऽप्यारम्भं न कुरुते, तस्य महान् दोष एव । तदुक्तं पञ्चाशके-"अपणत्थारंभवओ, धम्मेऽणारंभओ अणाभोगो। लोए पवयणखिंसा, अबोहिबीअंति दोसा य ॥१॥” नच वाप्यादिखननवदशुभोदकं जिनभवनादिकरणम्, अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव, षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापारवश्येन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः-"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झप्पविसोहिजुत्तस्स ॥१॥ परमरहस्समिसीणं, समत्तगणिपिडगझरिअसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ॥२॥” इत्यलं प्रसङ्गेन ३ । जिनागमक्षेत्रे च स्वधनवपनं यथा-जिनागमो हि
॥११९॥
Jain Education int
For Private & Personal Use Only
www.jainelibrary.org