________________
धर्म
॥११७॥
हाणे विणए, परक्कमे साहुसेवणाए ।सम्मइंसणलंभो, विरयाविरईएँ विरईए ॥१॥” अथवा जातिस्मरणादितीर्थकरवचनतदन्यवचनलक्षणः, यदाह-"सहसंमुइआए परवागरणेणं अन्नसिं वा सोचा" अथवा प्रथमद्वितीयकषायक्षयोपशम इति। तथा रक्षणं-सम्यक्त्वव्रतानामनुपालनोपायरूपमायतनसेवनादि, आह च "आययणसेवणा निन्निमित्तपरघरपवेसपरिहारो। किड्डापरिहरणं तह, विकिअवयणस्स परिहारो॥१॥” इत्यादि । उपायेन रक्षणमुपायरक्षणमित्यन्ये । ग्रहणं-त्रिविधं त्रिविधेनेत्यादिविकल्पैः सम्यक्त्वव्रतानामुपादानं, आह च "मिच्छत्तपडिक्कमणं, तिविहं तिविहेण णायव्वं"। तथा "दुविह तिविहेण पढमो, दुविहं दुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥१॥” इत्यादि । तथा प्रयत्नः-सम्यक्त्वव्रतग्रहणोत्तरकालं तदनुस्मरणादिः, सम्यक्त्वप्रतिपत्तौ उक्तरूपः, अप्रत्याख्यातविषयस्यापि वा यथाशक्ति परिहारोद्यमरूपा यतना,"नो मे कप्पइ अन्नउत्थिए"इत्यादिका, “परिसुद्धजलग्गहणं, दारुअधण्णाइआण तह चेव । गहिआणवि परिभोगो, विहिऍ तसरक्खणट्ठाए ॥१॥” इत्यादिका च। तथा विषयः-सम्यक्त्वव्रतगोचरो जीवाजीवादितत्त्वरूपः स्थूलसङ्कल्पितप्राण्यादिरूपश्च, तत उपायादीनां इन्दोऽतस्ते उपायरक्षणग्रहणप्रयत्नविषयाः 'मुणेअव्व'त्ति ज्ञातव्याः, इह विशेषतोऽनुक्ता अपि, कथमित्याह-'कुम्भकारचक्रभ्रामकदण्डदृष्टान्तेन धी:बुद्धिराजितैः, इदमुक्तं भवति-यथा कुम्भकारचक्रस्यैकस्मिन्नेव देशे दण्डेन प्रेरिते सर्वे देशा भ्रमिता भव|न्ति, एवमिह सम्यक्त्वव्रताश्रितविविधवक्तव्यताचक्रस्य सम्यक्त्वव्रतव्रतातिचाररूपे एकदेशे प्ररूपिते उपाया
॥११७॥
Jain Education Internationa
For Private & Personel Use Only
w.jainelibrary.org