________________
SHE
मभिप्रायः- कालं न्यूनमधिकं वा ज्ञाखा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतीचार इति चतुर्थः ४ । तथाऽन्यस्य-परस्य संबन्धीदं गुडखण्डादीत्यपदेशो-व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे "अपदेशस्तु करणे । व्याजे लक्ष्येऽपी"ति, अयं भाव:-परकीयमेतत्तेन साधुभ्यो न दीयते इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत् तदा कथमस्मभ्यं न दद्यात् ? इति साधुसंप्रत्ययार्थम्, अथवाऽस्माद्दानात् मम मात्रादेः पुण्यमस्त्विति भणनमिति पञ्चमः५ । इत्थमतिचारभावना उपासकदशाङ्गवृत्त्यनुसारेणोक्ता, तत्र ह्याभोगेनापि विधीयमाना एते अतीचारत्वेनैव समर्थिताः, तथा चैतत्पाठः "एते अतिचारा एव, न भङ्गा, दानार्थमभ्युत्थानादानपरिणतेश्च दूषितत्वात्" भङ्गस्वरूपस्य चेहैवमभिधानात् यथा “दाणंतरायदोसा, न देइ दिजंतयं च वारेइ। दिपणे वा परितप्पइ, इइ किविणत्ता भवे भङ्गो ॥१॥” त्ति । धर्मबिन्दुयोगशास्त्रवृत्त्यादौ तु 'यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदा|ऽतिचाराः, अन्यथा तु भङ्गा एवेति भावितं, निश्चयस्तु केवलिगम्यः। है। एवं सम्यक्त्वाणुव्रतगुणव्रतशिक्षापदानि तदतिचाराश्चाभिहिताः। तद्भिधाने च तदधिकारवाच्या उपाया
दयो यथास्थानमर्थतो दर्शिता इति स्वयमभ्यूह्याः। नामतश्च तेषां सङ्कलना यथा पश्चाशके “सुत्तादुपायरक्खणगहणपयत्तविसया मुणेयब्बा। कुंभारचक्कभामगदंडाहरणेण धीरेहिं ॥१॥ व्याख्या-सूत्रादू-आगमानुपायादयो मुणेयब्वा इत्यनेन संबन्धः, तत्रोपायः-सम्यक्त्वाणुव्रतादिप्रतिपत्तावभ्युत्थानादिलक्षणो हेतुः, आह च "अन्भु
R S REKHARASHTRA
Jain Education
For Private
Personal Use Only