________________
धर्म
संग्रह.
॥११६॥
क्ष्याप्रमृज्य चोत्सर्जनमतिचार इति तृतीयः ३ । इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन च दुष्प्रमाजनं सङ्गह्यते, नत्रः कुत्सार्थस्यापि दर्शनात्, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः, यत्सूत्रम् "अप्पडिलेहिअ-IP दुप्पडिलहिअसिज्जासंथारे, अप्पमज्जियदुप्पमजिअसिज्जासंधारए, अप्पडिलेहिअदुप्पडिलेहिअउच्चारपासवणभूमी, अप्पमजिअदुप्पमजिअउच्चारपासवणभूमि"त्ति ३ । तथाऽनादर:-अनुत्साहः पोषधव्रतप्रतिपत्तिकर्तव्यतयोरिति चतुर्थः४। तथाऽस्मृति:-अस्मरणं तद्विषयैवेति पञ्चमः ५॥५७॥ इत्युक्ताः पोषधव्रतातिचारा, अथातिथिसंविभागवलस्य तानाह
सचित्ते स्थापनं तेन, स्थगनं मत्सरस्तथा। काललोऽन्यापदेश, इति पञ्चान्तिमे व्रते ॥ ५८॥ सचित्ते स्थापनं, तेन स्थगनं, मत्सरः, काललवोऽन्यापदेशश्चेति पश्चातिचारा 'अन्तिमे व्रते अतिथिसंविभागनानि ज्ञेया इत्यन्वयः। तत्र सचित्ते-सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ स्थापन-साधुदेयभक्तादे-18 निक्षेपणं, तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः १। तेन-सचित्तेन कन्दपत्रपुष्पफलादिना तथाविधयैव बुद्ध्या स्थगनं-पिधानमिति द्वितीयः २ । तथा मत्सरः-कोपः यथा साधुभिर्याचितः कोपं करोति, सपि मार्गितं न ददाति, अथवा अनेन तावद्रङ्केण याचितेन दत्तं, किमहं ततो न्यून? इति मात्सर्याददाति, अत्र परोन्नतिवैमनस्यं मात्सर्य, यदुक्तमनेकार्थसंग्रहे श्रीहेमसूरिभिः-"मत्सरः परसम्पत्त्यक्षमायां तदति क्रुषि" इति तृतीयः ३ । तथा कालस्य-साधूचितभिक्षासमयस्य लो-लङ्घनमतिक्रस इतियावत्, अय
SCAMAKAASARS
॥११६॥
Jain Education Loc
For Private & Personal Use Only
al
w
IKI
jainelibrary.org