________________
सद्धेपकरणस्य, तत्कथं व्रतान्तरसङ्केपकरणं देशावकाशिकव्रतमिति ? अत्रोच्यते, प्राणातिपातादिवतान्तरसद्धेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसझेपकरणे तु सजिप्तत्वात्क्षेत्रस्य प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच दिग्वतसक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तम् ॥५६॥ इत्युक्ता देशावकाशिकव्रतातिचाराः, अथ पोषधोपवासव्रतस्य तानाह
संस्तारादानहानान्यप्रत्युपेक्ष्याप्रमृज्य च । अनादरोऽस्मृतिश्चेत्यतिचाराः पोषधवते ॥ ५७ ॥ संस्तारादिपबयाणांद्वन्द्वः, तेनाप्रत्युपेक्ष्याप्रमृज्य चेति प्रत्येकं सम्बध्यते, ततोऽप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, अप्रत्युपेक्ष्याप्रसृज्य चादानं,(अप्रत्युपेक्ष्याप्रमृज्य च हान),अनादरोऽस्मृतिश्चेति पश्चातिचाराः पोषधव्रतेज्ञेया इति संबन्धः । तत्र संस्तीर्यते प्रतिपन्नपोषधव्रतेन दर्भकुशकम्बलीवस्त्रादिःस संस्तारः, संस्तारशब्दश्च शय्योपलक्षणं, तत्र शय्या-शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारश्चाईतृतीयहस्तप्रमाणः, स च प्रत्युपेक्ष्य प्रमाणं च कर्त्तव्यः, प्रत्युपेक्षणं-चक्षुषा निरीक्षणं, प्रमार्जनं च-वस्त्रप्रान्तादिना तस्यैव शुद्धीकरणं, अथाप्रत्युपेक्ष्याप्रमृज्य च संस्तारकं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १। आदान-ग्रहणं यष्टिपीठफलकादीनां, तदपि यष्ट्यादीनां निक्षेपस्योपलक्षणं, तेनोभयमपि प्रत्युपेक्ष्य प्रमृज्य च कार्यम् , अप्रत्युपेक्षितस्याप्रमार्जितस्य चादानं निक्षेपश्चातिचार इति द्वितीयः२ । हानं चोत्सर्गस्त्याग इतियावत् 'ओहाक त्यागे इत्यस्य धातोः प्रयोगात्, तच्चोचारप्रश्रवणखेलसिवाणकादीनां प्रत्युपेक्ष्य प्रमृज्य च स्थण्डिलादी कार्यम्, अप्रत्युपे
Jain Education in
For Private & Personel Use Only
R
ainelibrary.org