SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. ॥११५॥ प्रत्युत खयं गमने ईर्यापथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रथमोऽतिचारः। आनयनं-विवक्षितक्षेत्राहाहास्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणं सामर्थ्यात्प्रेष्येण, खयं गमने हि व्रतभङ्गः स्यात्, परेण त्वानयने न भङ्ग इति वुद्ध्या यदाऽऽनाययति सचेतनादि द्रव्यं तदाऽतिचार इति द्वितीयः २ । शब्दस्य-क्षुत्कासितादेरनुपातनं-श्रोत्रेऽवतारणं शब्दानुपातनं, यथा विहितखगृहवृतिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजने उत्पन्ने विवक्षितक्षेत्राद्वतिभङ्ग भयात्खयं गन्तुं बहिास्थितं चाहा तुमशक्नुवन् वृतिप्राकारादिप्रत्यासन्नवीभूय कासितादिशब्द आह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छ्रइवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामाऽतिचारस्तृतीयः ३ । एवं रूपानुपातनं, यथा रूपं-शरीरसं-131 बन्धि उत्पन्नप्रयोजनः शब्दमनुचारयन्नाहानीयानां दृष्टावनुपातयति, तद्दर्शनाच तत्समीपमागच्छन्तीति रूपानुपातनाख्योऽतिचारश्चतुर्थः ४ । तथा पुद्गला:-परमाणवस्तत्सङ्घातसमुद्भवा बादपरिणाम प्राप्ता लोटादयोऽपि, तेषां प्रेरणं-क्षेपणं, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय क्षिपति, पातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः खयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः५।इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु मायापरतयाऽतिचारतां यातीति विवेकः । इहाहुर्वृद्धा:- दिग्व्रतसंक्षेपकरणमणुव्रतादिसङ्केपकरणस्याप्युपलक्षणं द्रष्टव्यं, तेषामपि सङ्केपस्यावश्यकर्त्तव्यत्वात्, अत्राह-ननु अतिचाराश्च दिग्व्रतसद्धेपकरणस्यैव श्रूयन्ते, न व्रतान्तर COMCGRECORRECRUNCC-SS R॥११५ Jan Education Internano For Private Personel Use Only Dainelorary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy