SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ घ. सं. २० Jain Education Infe क लहु ॥ १ ॥ तस्माद्धर्मानुष्ठानं निरन्तरं कार्यसेव, किंतु तत्कुर्वता सर्वशक्त्या विधौ यतनीयं, इदमेव च श्रद्धालोर्लक्षणं, आहुच “विहिसारं चिय सेवइ, सद्धालू सत्तिसं अणुट्ठाणं । दव्वाइदोसनिहओवि, पक्खवायं वहइ तंमि ॥ १ ॥ घण्णाणं विहिजोगो, विहिपक्खाराहगा सया धण्णा । विहिबहुमाणी धण्णा, विहिपक्खअदूसगा धण्णा ॥ २ ॥ आसन्नसिद्धिआणं, विहिपरिणामो उ होइ सयकालं । विहिचाओ अविहिभत्ती, अभव्वजियदूर भव्वाणं ॥ ३ ॥” इति । कृषिवाणिज्यसेवादि भोजनशयनासनगमनवचनाद्यपि द्रव्यक्षेत्रकालादिविधिना पूर्णफलवन्नान्यथा, अत एव सकलक्रियापुण्यक्रियाप्रान्तेऽविध्याशातनानिमित्तं मिथ्यादुष्कृतं दातव्यमेवेत्यलं प्रसङ्गेन ॥ ५५ ॥ अधुना देशावकाशिकवतातिचारानाह प्रेषणानयने शब्दरूपयोरनुपातने । पुद्गलप्रेरणं चेति, मता देशावकाशिके ॥ ५६ ॥ प्रेषणं चानयनं चेति प्रेषणानयने, शब्दश्च रूपं चैतयोरनुपातने अवतारणे, शब्दानुपातो रूपानुपातचे त्यर्थः, पुद्गलप्रेरणं चेति पञ्चातिचारा 'देशावकाशिके' देशावकाशिकनाम्नि व्रते ज्ञेयाः । अयं भावः - दिग्नतविशेष एव देशावकाशिकव्रतम्, इयाँस्तु विशेषो- दिग्व्रतं यावज्जीवं संवत्सरचतुर्मासी परिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहूर्त्तादिपरिमाणं, तस्य च पश्चातिचारास्तद्यथा - प्रेषणं भृत्यादेर्विवक्षितक्षेत्राद्वहिः प्रयोजनाय व्यापारणं, स्वयं गमने हि व्रतभङ्गः स्यादिति अन्यस्य प्रेषणं, देशावकाशिकवतं मा भूगमनागमनादिव्यापारजनितप्राण्युपमर्द इत्यभिप्रायेण गृह्यते स तु स्वयं कृतोऽन्येन (वा) कारित इति न कश्चित्फले विशेषः, For Private & Personal Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy