________________
संग्रह.
५। अत्राह-कायदष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुनोऽभाव एवोक्तः, अति
चारश्च मालिन्यरूप एव भवतीति कथं सामायिकाभावेऽयं भवेत् ? अतो भङ्गा एवैते नातिचारा इति. उच्यते. ॥११४॥
अनाभोगतोऽतिचारत्वं । ननु द्विविधं त्रिविधेनेति सावद्यप्रत्याख्यानं सामायिकं, तत्र च कायदष्पणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनिते(त)च प्रायश्चित्तं विधेयं स्यात्,मनोदष्प्रणिधानं चाशक्यपरिहारं, मनसोऽनवस्थितत्वाच्च, अतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी, यदाहा-'अवि
धिकृताद्वरमकृतमिति, नैवं, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नं, तत्र च मनसा वाचा कायेन च हिसावधं न करोमि न कारयामीति षट् प्रत्याख्यानानीत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिध्यादुष्कृतेन
मनोदुष्पणिधानमात्रशुद्धेश्च न सामायिकात्यन्ताभावः, सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतं, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तं, यदाह-"बीओ उ असमिओमित्ति कीस सहसा अगुत्तो वा,” इति, द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शुध्यतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति । किञ्च -सातिचारादप्यनुष्ठानाद्भ्यासतः कालेन निरतिचारमनुष्टानं भवतीति सूरयः, यदाह-"अभ्यासोऽपि प्रायः, प्रभूतजन्मानुगो भवति शुद्धः" इति । बाह्या अपि "अभ्यासो हि कर्मणां कौशलमावहति, नहि सकृनिपातमात्रेणोदबिन्दुरपि ग्राणि निम्नतामाद्धाति, न चाविधिकृताद्वरमकृतमिति युक्तम्, असूयावचनत्वादस्य, यदाहुः-"अविहिकया वरमकयं,उस्सुअ(असूय)वयणं भणंति समयण्णू। पायच्छित्तं जम्हा, अकए गुरु
HEACCOCCASIRECORROCRACT
॥११४॥
Jain Educationist
For Private & Personel Use Only
R
w.jainelibrary.org