________________
Jain Education
यो दुष्प्रणिधानानि स्मृतेरनवता (घा) रणम् । अनादरश्चेति जिनैः, प्रोक्ताः सामायिकवते ॥ ५५ ॥ योगदुष्प्रणिधानादयः प्रक्रमात् पञ्चातिचाराः 'सामायिकत्रते जिनैः प्रोक्ताः' इत्यन्वयः, तत्र योगाः कायवाङ्मनांसि तेषां दुर्दुष्टानि प्रणिधानानि- प्रणिधयः दुष्प्रणिधानानि, सावद्ये प्रवर्त्तनालक्षणानीत्यर्थः, तत्रापि शरीरावयवानां पाणिपादादी नामनिभृततावस्थापनं कायदुष्प्रणिधानं, वर्णसंस्काराभावोऽर्था नवगमश्चापलं च वाग्दुष्प्रणिधानं, क्रोध लोभद्रोहाभिमानेर्ष्यादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानम्, एते त्रयोतिचाराः, यदाहुः - " अणविक्खि आपमजिअ, थंडिले ठाणमाइ सेवतो । हिंसाऽभावेवि न सो, कडसामइओ पमायाओ ॥ १ ॥ कडसामइओ पुवि, बुद्धीए पेहिऊण भासेजा । सइ निरवज्जं वयणं, अण्णह सामाइअं न हवे ॥ २ ॥ सामाइअं तु काउं, घरचिंतं जो अ चिंतए सहो । अवसहोवगओ, निरत्थयं तस्स सामइअं ॥ ३ ॥” तथा स्मृतेः सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमाद्योगाद्नवता (घा)रणम्-अनुपस्थापनम् एतदुक्तं भवति-मया कदा सामायिकं कर्त्तव्यं ? कृतं वा मया सामायिकं नवेति एवंरूपस्मरणभ्रंशोऽतिचारः, स्मृतिमूलत्वान्मोक्षानुष्ठानस्य, यदाहु: - "न सरह पमायजुत्तो, जो सामइअं कया य | कायव्वं ? । कयमकयं वा तस्स हु, कयंपि विहलं तयं नेयं ॥ १ ॥” ति चतुर्थः ४ । तथाऽनादरः-अनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणं, यथाकथञ्चिद्वा करणानन्तरमेव पारणं च यदाहुः - "काऊण तक्खणं चिअ, पारेइ करेइ वा जहिच्छाए । अणवट्ठिअसामाइअ, अणायराओ न तं सुद्धं ॥ १ ॥” ति पञ्चमोऽतिचारः
For Private & Personal Use Only
w.jainelibrary.org