________________
वर्जनव्रतवतामतिचाराः स्युः, उपेत्य क्रियमाणास्तु भङ्गा एवेति" पञ्चाशकयोगशास्त्रवृत्त्योः ॥५३॥ इत्युक्ता भोगोपभोगव्रतातिचाराः, अथानर्थदण्डविरमणव्रतस्य तानाह
प्रोक्तास्तृतीये कन्दर्पः, कौत्कुच्यं भोगभूरिता । संयुक्ताधिकरणत्वं, मौखर्यं च गुणवते ॥ ५४॥ कन्दर्पः कौत्कुच्यं भोगभूरिता संयुक्ताधिकरणत्वं मौखयं चेति पञ्चातिचाराः 'तृतीये गुणवते'अनर्थदण्डविरतिरूपे प्रोक्ताः जिनैरिति शेषः । तत्र 'कन्दर्पः कामस्तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः, मोहोही|पकं वाकर्मेति भावः । इह चेयं सामाचारी-श्रावकेण न तादृशं वक्तव्यं, येन स्वस्थ परस्य वा मोहोद्रेको भवति, अट्टहासोऽपि न कल्पते का, यदि नाम हसितव्यं तदेषदेवेति प्रथमः १ । कुत्-कुत्सायां निपातो निपातानामानन्त्यात्, कुत्कुत्सितं कुचति कुचभ्रूनयनौष्ठनासाकरचरणमुखविकारैः सङ्कचतीति कुत्कुचस्तस्य भावः कौत्कुच्यम्-अनेकप्रकारा भण्डादिविडम्बनक्रियेत्यर्थः । अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः सङ्कोचादिक्रियाभाक् तद्भावः कौत्कुच्यं, अत्र च श्रावकस्य न तादृशं वक्तुं चेष्टितुं वा कल्पते, येन परे हसन्ति, आत्मनश्च लाघवं भवति, प्रमादात्तथाऽऽचरणे चातिचार इति द्वितीयः २ । एतौ द्वावपि प्रमा-131 दाचरितव्रतस्यातिचारी, प्रमाद्रूपत्वादेतयोः २ । तथा भोगस्य-उपलक्षणलादुपभोगस्य च-उक्तनिर्वचनस्य लानपानभोजनचन्दनकुङ्कुमकस्तूरिकावस्त्राभरणादे रिता-खखीयकुटुम्बव्यापारणापेक्षयाऽधिकत्वं, अयमपि प्रमादाचरितस्यातिचारः, विषयात्मकत्वादस्याः, इहापीयं समाचारी आवश्यकचूण्यांद्युक्ता-यदि
नन्त्यात्, कुत्कुत्सित, यदि नाम हसितव्यं तदेवक्तव्यं, येन स्वस्य परस्य वा माही
Jain Education in
For Private & Personel Use Only
ainelibrary.org