________________
धर्म
॥ ११२ ॥
Jain Education 1
|म्बुसम्प्लव:" तत्राखातं सरः खातं तु तडागमित्यनयोर्भेदः । इह हि जलस्य तद्गतानां त्रसानां तत्प्लावितानां च षण्णां जीवनिकायानां वध इति दोषः १४ । असत्यो दुःशीलास्तासां पोषणं 'लिङ्गमतत्रं' शुकादीनां पुंसामपि पोषणमसतीपोषः, शुकसारिकामयूरमार्जारमर्कटकुर्कुटकुर्कुरशूकरादितिरश्चां पोषणं, तथा भाटीयहणार्थं दास्याः पोषः, गोल्लदेशे प्रसिद्धोऽयं व्यवहारः, एषां च दुःशीलानां पोषणं पापहेतुरेवेति दोषः १५ । इति पञ्चदशसङ्ख्यानि प्रस्तावात् कर्मादानानि अतिचाररूपत्वात् 'त्यजेत्' जह्यात्, श्रावक इति शेषः । इत्युक्तानि पञ्चदश कर्मादानानि । दिग्मात्रं चेदमेवंजातीयानां बहूनां सावद्यकर्मणां न पुनः परिगणनमिति । इह चैवं विंशतिसङ्ख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसङ्ख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनां संग्रह इति ज्ञापनार्थं । तेन स्मृत्यन्तर्द्धानाद्यो यथासम्भवं सर्वव्रतेष्वतिचारा द्रष्टव्याः । अत एव चात्र व्रते रात्रिभोजनमद्यादिनिवृत्तिष्वप्यतिचाराः पूर्व भाविताः, तथा चोक्तमुपासकदशाङ्गवृत्तौ " य एते प्रतिव्रतं पश्च पञ्चातिचारास्ते उपलक्षणमतिचारान्तराणामवसेयं, नत्ववधारणं, यदाहुः पूज्याः- “पञ्चपञ्चातिचारा उ, सुत्तंमि जे पदंसिआ । ते नावहारणट्ठाए, किन्तु ते उवलक्खणं ॥ १ ॥” ति, इदं चेह तत्त्वम्-यत्र व्रतवि षयेऽना भोगादिनाऽतिक्रमादिपदत्रयेण वा खबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः (या) प्रवृत्तिः साऽतिचारो, विपरीततायां तु भङ्गः इत्येवं सङ्कीर्णातिचारपद्गमनिका कार्येति, “नन्वङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः ? खरकर्मरूपा येते, सत्यं, खरकर्मरूपा एबैते, किन्त्वना भोगादिना क्रियमाणाः खरकर्म
For Private & Personal Use Only
संग्रह .
॥ ११२ ॥
w.jainelibrary.org