________________
Jain Education In
नादि वा यतः- “तिलेक्षुसर्षपैरण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यत्रपीडा प्रकीर्त्तिता ॥ १ ॥” अत्र यत्रशब्दः प्रत्येकं सम्बध्यते, तत्र तिलयन्त्रं तिलपीडनोपकरणं, इक्षुयत्रं कोल्हुकादि, सर्षपैरण्डयन्त्रे तत्पीडनोपकरणे, जलयन्त्र मरघट्टादि, दुलतिलं यत्र दलं तिलादि दीयते तैलं च प्रतिगृह्यते तद्दलतैलं, तस्य कृतिर्विधानं, अत्र दोषस्तु तिलादिक्षोदात्तद्गतत्र सजीववधाच्च, लौकिका अप्याहु:- “ दशशूनासमं चक्रमिति” ११ । नितरां लाञ्छनम् अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लाञ्छनकर्म गवादिकर्णकम्बलश्शृङ्गपुच्छच्छेदनासावेधाङ्कनपण्डनत्वग्दाहादि उष्ट्रपृष्ठगालनादि च यतः - "नासावेधोऽङ्कनं पुच्छ (मुष्क) च्छेदनं पृष्ठगालनम्। गोकर्णकम्बलच्छेदो, निर्लाञ्छनमुदीरितम् ॥ १ ॥” तत्राङ्कनं गवाश्वादीनां चिह्नकरणं मुष्कः- अण्डस्तस्य छेदनं -वर्द्धितकीकरणं, अस्मिन् जीवबाधा व्यक्तैव १२ । दवस्य दवाग्नेर्दानं-वितरणं दवदानं, गहनदाहे सति भिल्लादयः सुखेन चरन्ति जीर्णतृणदाहे वा नवतृणाङ्कुरोद्भेदाद्गवादयश्चरन्ति यद्वा दुग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादिबुद्ध्या कौतुकाद्वा, यद्वा मम श्रेयोऽर्थं मरणकाले इयन्तो धर्मदीपोत्सवाः करणीया इति पुण्यबुद्ध्याऽरण्येऽग्निज्वालनं, यतः - " व्यसनात्पुण्यबुद्ध्या वा, दवदानं भवेत् द्विधे"ति, तत्र व्यसनात्-फलनिरपेक्षतात्पर्यात्, तथाच वनेचरा एवमेवाग्निं ज्वालयन्ति, पुण्यबुद्ध्या वा-तच्चोक्तरीत्याऽवसेयं, अत्र च | दोषो जीवकोटीनां वधरूपः स्पष्ट एव १३ । सरसः शोषः सरः शोषः- धान्यादिवपनार्थं सारणीकर्षणं, सरोग्रहणं जलाशयान्तराणामुपलक्षणं, तेन सिन्धुद्रहतडागादिपरिग्रहः, यतः - " सरः शोषः सरः सिन्धुहदादेर
For Private & Personal Use Only
ninelibrary.org