________________
धर्म
॥ १११ ॥
लत्वात् टङ्कणक्षारसाबूक्षारादेर्वाह्यजीवविनाशनिमित्तत्वाच महानेव दोषः ७ । रसवणिज्या मधुमद्यमांसम्रक्षणवसामज्जादुग्धद्धिघृततैलादिविक्रयो, दोषास्तु नवनीते जन्तुमूर्छनं वसाक्षौद्रयोर्जन्तुघातोद्भवत्वं मद्यस्योन्मादजननत्वं तद्गुतकृमिविघातश्च दुग्धादौ सम्पातिमजन्तुविराधना दिनद्रयातीते दनि जन्तुसम्मूछेनाऽपि ८ । केशशब्दः केशवदुपलक्षकः, ततो दासादिनृणां गवाश्वादितिरश्चां च केशवतां विक्रयः केशवणिज्या, यतः - " नवनीत व साक्षौद्रमद्यप्रभृतिविक्रयः । द्विपाञ्चतुष्पाद्विक्रयो वा, वाणिज्यं रसकेशयोः ॥ १ ॥ " अजीवानां तु केशादिजीवाङ्गानां विक्रयो दन्तवाणिज्यमिति विवेकः । द्विपाच्चतुष्पाद्विक्रये तु तेषां पारवश्यं वधबन्धादयः क्षुत्पिपासा पीडा चेति दोषाः ९ । विषं शृङ्गादि तचोपलक्षणं जीवघातहेतू नामस्त्रादीनां, ततो विषशस्त्रकुशीकुद्दालादिलोहहलादिविक्रयो विषवणिज्या, अस्मिंश्च शृङ्गकवत्सनागादेर्हरितालसोमलक्षारादेश्च विषस्य शस्त्रादीनां च जीवितनत्वं प्रतीतमेव, दृश्यन्ते च जलार्द्रहरितालेन सहसैव विपद्यमाना मक्षिकादयः, सोमलक्षारादिना तु भक्षितेन बालादयोऽपि, विषादिवाणिज्यं च परेऽपि निषेधयन्ति, यतः -"कन्याविक्रयिणश्चैव, रसविक्रयिणस्तथा । विषविक्रयिणश्चैव, नरा नरकगामिनः ॥ १ ॥” इति, अरघट्टादियत्रविक्रयोsपि योगशास्त्रे विषवाणिज्यतयोक्तो, यतः - “विषास्त्रहलय त्रायो हरितालादिवस्तुनः । विक्रयो जीवितन्नस्य, विषवाणिज्यमुच्यते ॥ १ ॥” इति । ग्रन्थान्तरे तु यत्रपीडन कर्मण्येवेति १० । 'यत्रपीडनकर्म' शिलोदूखलमुशलघरट्टारघट्टकङ्कतादिविक्रयस्तिलेक्षुसर्षपैरण्डफलातस्यादिपीड नदलतैलविधानजलयन्त्रवाह
Jain Education International
For Private & Personal Use Only
संग्रह
॥ १११ ॥
www.jainelibrary.org