________________
SANSLSAUGARCADCASSA
च पृथिव्या वनस्पतित्रसादिजन्तूनां च घातो भवतीति दोषः स्पष्ट एव, प्रतिक्रमणसूत्रवृत्तौ तु “कणानां दलनपेषणादि स्फोटकर्मत्वेन प्रतिपादितमिति"। अथोत्तरार्डेन पञ्च वाणिज्यान्याह 'वणिज्याका इत्यादि, अत्राश्रिताशब्दः प्रत्येकं योज्यस्ततो दन्ताश्रिता-दन्तविषया वणिज्याका-वाणिज्यं दन्तक्रयविक्रय इत्यर्थः । एवं लाक्षावणिज्यारसवणिज्याकेशवणिज्याविषवणिज्यावपि । तत्र दन्ता हस्तिनां, तेषामुपलक्षणत्वादन्येषामपि त्रसजीवावयवानां घूकादिनखहंसादिरोमचर्मचमरशृङ्गशङ्खशुक्तिकपर्दकस्तूरीपोहीसकादीनां, वणिज्या चात्राकरे ग्रहणरूपा द्रष्टव्या, यत्पूर्वमेव पुलिन्दानां मूल्यं ददाति, दन्तादीन मे यूयं ददतेति, ततस्ते हस्त्यादीन् प्रन्त्यचिरादसौ वाणिजक एष्यतीति, पूर्वानीतांस्तु क्रीणातीति, वसहिंसा स्पष्टैवामिन् वा|णिज्ये, अनाकरे तु दन्तादीनां ग्रहणे विक्रये च न दोषः, यदाहुः-"दन्तकेशनखास्थित्वगरोम्णो ग्रहणमाकरे।
साङ्गस्य वणिज्याथ, दन्तवाणिज्यमुच्यते ।१" ६ । लाक्षा जतुः, अत्रापि लाक्षाग्रहणमन्येषां सावद्यानां मनःशिलादीनामुपलक्षणं, तदाश्रिता वणिज्या लाक्षावाणिज्यं, लाक्षाधातकीनीलीमनःशिलावज्रलेपतुबरिकापट्टवासकणसाबूक्षारादिविक्रयो, यतः-"लाक्षामनःशिलानीलीधातकीटङ्कणादिनः । विक्रयः पापसदनं, लाक्षावाणिज्यमुच्यते ॥ १ ॥" अस्मिंश्च लाक्षाया बहुत्रसाकुलत्वात्तद्रसस्य च रुधिरभ्रमकारित्वात् धातकीत्वक्पुष्पयोर्मद्याङ्गत्वात्कल्कस्य च कृमिहेतुत्वात् गुलिकाया अनेकजन्तुघाताविनाभावित्वात् मनःशिलावज्रलेपयोः सम्पातिमबाह्यजन्तुघातकत्वात् तुबरिकायाः पृथिवीत्वादिना पटवासस्य त्रसाकु
Jain Education
a
l
For Private & Personel Use Only
A
jainelibrary.org
IA