________________
धर्म
॥ ११० ॥
Jain Education In
आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति, ते च भ्राष्ट्रकरणेष्टिकादिपाककुम्भकारायस्कार स्वर्णकारकृत्यादयः, एते हि अङ्गारकर्मरूपास्तैर्जीवनमङ्गारकर्मवृत्तिरेवमग्रेऽपि भाव्यं । यतो योगशास्त्रे “अङ्गारभ्राष्ट्रकरणं, कुम्भायःस्वर्णकारिता । ठठारत्वेष्टिकापाकाविति ह्यङ्गारजीविका ॥ १ ॥” तत्र ठठारत्वं शुल्वनागवङ्गकांस्यपित्तलादीनां करणघटनादिनाऽऽजीविका १। तथा 'विपिनं' वनं, तत्कर्म-छिन्नाच्छिन्नवनपत्रपुष्पफलकन्दमूलतृणकाष्ठकम्बावंशादिविक्रयः कणदलपेषणं वनकच्छादिकरणं च यतः- “छिन्नाच्छिन्नवनपत्र प्रसूनफलविक्रयः । कणानां दलनोत्पेषाद्वृत्तिश्च वनजीविका ॥ १ ॥” इति । अस्यां च वनस्पतेस्तदाश्रितत्रसादेश्व घातसम्भव इति दोष: २ । 'अनः' शकटं तत्कर्म च शकटशकटाङ्गघटनखेदनविक्रयादि, यदाह - " शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्त्तिता । १ ।” तत्र शकटानामिति चतुष्पदवायानां वाहनानां तदङ्गानां चक्रादीनां घटनं खयं परेण वा निष्पादनं, खेटनं वाहनं च शकटानामेव सम्भवति, स्वयं परेण वा विक्रयश्च शकटादीनां तदङ्गानां च, इदं कर्मापि सकलभूतोपमर्दजननं, गवादीनां च वधवन्धादिहेतुः ३ । 'भाटीकर्म' शकटवृषभकर भमहिषखरवेसराश्वादेर्भाटकनिमित्तं भारवाहनं यतः - " शकटोक्षलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद्वृत्तिर्भवेद्भाटकजीविका । १ ।” अत्रापि शकटकमको यो दोषः स संभवत्येव ४ । 'स्फोट:' पृथिव्या विदारणं तत्कर्म स्फोटकर्म कूपाद्यर्थ भूखननहलखेटनपाषाणखननादि, यतः - “सरः कूपादिखननं, शिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥ १॥" अनेन
For Private & Personal Use Only
संग्रह.
॥ ११० ॥
jainelibrary.org