________________
अमी भोजनमाश्रित्य, त्यक्तव्याः कर्मतः पुनः । खरकर्मत्रिनपञ्चकर्मादानानि तन्मलाः ॥ ५१ ॥ 'अमी' उक्तखरूपाः पञ्चातिचारा 'भोजनमाश्रित्य' 'त्यक्तव्या' हेयाः । अथ कर्मतस्तानाह-तत्र भोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म-व्यापारस्तदपि भोगोपभोगशब्देनोच्यते, कारणे कार्योपचारात् इति, व्याख्यानान्तरं पूर्वमुक्तमेव । ततश्च 'कर्मतः' कर्माश्रित्य भोगोपभोगोत्पादकव्यापारमाश्रित्येत्यर्थः, 'पुनः 'खरं कठोरं यत् 'कर्म कोहपालनगुप्तिपालनादिरूपं तत्त्याज्यं, 'तन्मला' तस्मिन् खरकर्मत्यागलक्षणे |भोगोपभोगव्रते मला:-अतिचाराः त्रिघ्नाः-त्रिगुणिताः पञ्च पञ्चदशेत्यर्थः, कर्मादानानि-कर्मादानशब्दवाच्या भवन्तीतिशेषः, कर्मणां पापप्रकृतीनामादानानि कारणानीतिकृत्वा तेऽपि त्यक्तव्या इति पूर्वक्रियान्वयः
॥५१॥ अथ तान्येव नामतः श्लोकद्वयेनाहहै| वृत्तयोऽङ्गारविपिनानोभाटीस्फोटकर्मभिः । वणिज्याका दन्तलाक्षारसकेशविषाश्रिताः ॥ ५२ ॥
यत्रपीडनकं निर्लाञ्छनं दानं दवस्य च।सरःशोषोऽसतीपोषश्चेति पञ्चदश त्यजेत् ॥५३॥ युग्मम् कर्मशब्दः प्रत्येकं सम्बध्यते, अङ्गारकर्म विपिनकर्म अनःकर्म भाटीकर्म स्फोटकर्मेति, तैर्वृत्तयः-आजीविका अङ्गारकर्मादिवृत्तयः, तत्र कर्म-क्रिया करणमितियावत्, ततः काष्ठदाहेनाङ्गारनिष्पादनं अङ्गारकर्म तेनाजीविका-तद्विक्रयादिरूपा, तत्करणे हि षण्णां जीवनिकायानां विराधनासम्भवः, एवं ये येऽग्निविराधनारूपा
For Private Personal Use Only
M
Jan Education
ainelibrary.org