________________
दितिक्षणस्येति अत एव मूलकणक्कादरपकतापधिभक्षणम
संग्रह.
तत्राक्षेपपरिहारावित्थम्-"नन्वपकौषधयो यदि सचेतनास्तदा सचित्तमित्याद्यपदेनैवोक्तार्थत्वात्पुनर्वचनमसझतं, अथाचेतनास्तदा कोऽतिचारो? निरवद्यत्वात्तद्भक्षणस्येति, सत्यं, किन्वाद्यावतीचारौ सचेतनकन्दफलादिविषयावितरे तु शाल्याद्योषधिविषया इति विषयकृतो भेदः, अत एव मूलसूत्रे 'अप्पउलिओसह(हि)भक्खणयेत्यायुक्तं, ततोऽनाभोगातिक्रमादिनाऽपकौषधिभक्षणमतिचारोऽथवा कणिकादेरपक्कतया सम्भवत्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिमितिबुद्ध्या भक्षणं व्रतसापेक्षत्वादतिचारः, दुष्पकौषधिभक्षणभावना तु पूर्वोक्तैव, तुच्छौषधिभक्षणे त्वित्थम्-ननु तुच्छौषधयोऽपक्का दुष्पक्काः सम्यक्पका वा स्युः? यदाऽऽद्यौ पक्षी तदा तृतीयचतुर्थातिचाराभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक्पक्कास्तदा निरवद्यत्वादेव काऽतिचारता तद्भक्षणस्येति ?, सत्यं, किन्तु यथाऽऽद्यद्वयस्योत्तरदयस्य च सचित्तत्वे समानेऽप्यनोषध्योषधिकृतो विशेषः, एवमस्य सचेतनौषधित्वाभ्यां समानत्वेऽप्यतुच्छतुच्छत्वकृतो विशेषो दृश्यः। तत्र च कोमलमुद्गादिफलीर्विशिष्टतृप्त्यकारकत्वेन तुच्छाः सचित्ता एवानाभोगादिना भुञानस्य तुच्छौषधिभक्षणमतिचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचित्तीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिजननासमर्था अप्योषधीलौल्येनाचित्तीकृत्य भुते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेर्विराधितत्वाव्यतस्तु पालितत्वादिति” पश्चाशकवृत्तौ ॥५०॥ अथ भोगोपभोगातिचारानुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्चातिचारानुपदर्शयितुमाह
॥१०९n
Jain Education Intel
For Private & Personel Use Only
Mainelibrary.org