________________
सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः, अथवा बीजं त्यक्ष्यामि सचेतनत्वात्तस्य, कटाहं त्वचेतनत्वाक्षयिष्यामीतिधिया पकं खजूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारो द्वितीयः २। सम्मिश्रा-अर्द्धपरिणतजलादिराकदाडिमबीजपूरकचिटिकादिमिश्रपूरणादिवा तिलमिश्रो यवधानादिर्वा, एतदाहारोऽप्यनाभोगातिक्रमादिनाऽतिचारः। अथवा सम्भवत्सचित्तावयवस्थापककणिकादेः पिष्टत्वादिनाऽचेतनमितिबुद्ध्याऽऽहारःसम्मिश्राहारो व्रतसापेक्षत्वादतिचार इति तृतीयः ३। अभिषवः-सुरासौवीरकादिर्मासप्रकारखण्डादिर्वा सुरामध्वाद्यभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगादिनातिचार इति चतुर्थः ४ । तथा दुष्पक-अर्द्धखिन्नपृथुकतन्दुलयवगोधूमस्थूलमण्डककङ्कडुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचित्तस्तावता परलोकमप्युपहन्ति, पृथुकादेवुपक्कतया संभवत्सचेतनावयवत्वात्पकत्वेनाचेतन इति भुञानस्यातिचार इति पञ्चमः ५। केचित्त्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति, अपकं च यदग्निनाऽसंस्कृतम्, एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति, तुच्छौषधिभक्षणमपि केचिदतिचारमाहुः, तुच्छौषधयश्च मुद्गादिकोमलशिम्बीरूपाः, ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथाग्निपाकादिनाऽचित्तास्तहि को दोष इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः । इत्थमतिचारव्याख्यानं तत्त्वार्थवृत्त्याद्यनुसारेण ज्ञेयम् । आवश्यकपश्चाशकवृत्त्यादिषु तु अपकदुष्पकतुच्छौषधिभक्षणस्य क्रमेण तृतीयाचतिचारत्वं दर्शितं ।
Jain Education India
For Private & Personel Use Only
Didyainelibrary.org