________________
धर्म
॥१०८॥
गादा परिमाणमतिक्रान्तो भवति, तदा तेन ज्ञाते निवर्तितव्यं, परतश्च न गन्तव्यं, अन्योऽपि न विसर्ज-II संग्रह. नीयः, अथानाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं, स्वयं विस्मृत्य गतेन वा, तन्न गृह्यत इति । तीर्थयात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात्परतोऽपि साधोरिवेर्यासमित्युपयोगेन गच्छतो न दोषो, धनार्जनाचैहिकफलार्थमेवाधिकगमनस्य नियमनादिति दिग्विरमणव्रतातिचाराः ॥४९॥ अथ द्वितीयगुणव्रतस्य भोगोपभोगपरिमाणरूपस्यातिचारानाह
सचित्तस्तत्प्रतिबद्धः, संमिश्रोऽभिषवस्तथा । दुष्पक्काहार इत्येते, द्वैतीयीके गुणवते ॥ ५॥ सह चित्तेन-चेतनया वर्तते यः स सचित्तः, तेन-सचित्तेन प्रतिबद्धः-सम्बडस्तत्प्रतिबद्धः, सचित्तेन मिश्रः -सबलः संमिश्रः, अभिषवः-अनेकद्रव्यसन्धाननिष्पन्नः, दुष्पक्को-मन्दपक्कः स चासावाहारश्चेत्यतिचाराः 'वैतीयीके द्वितीये स्वार्थे इकण (श्रीसि६-४-१) 'गुणव्रते' भोगोपभोगपरिमाणाख्ये, ज्ञेया इति शेषः। तत्र सचित्तःकन्दमूलफलादिः पृथिवीकायादि । इह च निवृत्तिविषयीकृतेऽपि सचित्तादौ प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्थानाभोगातिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यमन्यथा भङ्ग एव स्यात् । तत्रापि कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना खादतः सचित्ताहाररूपः प्रथमोऽतिचारः।
॥१०८॥ आहारशब्दस्तु दुष्पकाहार इत्यस्मादाकृष्य सम्बन्ध्यः, एवमुत्तरेष्वप्याहारशब्दयोजना भाव्या १ । सचित्तप्रतिबद्धः-सचेतनवृक्षादिसम्बद्धो गुन्दादिः पक्कफलादिा, सचित्तान्तीजः खजूराम्रादिः, तदाहारो हि
Jain Education in
For Private & Personel Use Only
jainelibrary.org