________________
KAROSAROKARMERS
तस्य' नियमितस्य 'मानस्य' प्रमाणस्य मया योजनशतादि यावद्गमनादि विधेयं न परत इत्येवंरूपस्य व्यति-12 क्रमा एते त्रयोऽतिचाराः । यत्सूत्रम्-"उडदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरिअदिसिप|माणाइक्कमे"त्ति । एते चानाभोगातिक्रमादिभिरेवातिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्गा एव । यस्तु न करोमि न कारयामीति वा नियमं करोति, स विवक्षितक्षेत्रात्परतः खयं गमनतः परेण नयनानयनाभ्यां च दिक्प्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात् परेण नयनानयनयोन दोष इति । तथा क्षेत्रस्य-पूर्वादिदेशस्य दिग्व्रतविषयस्य इस्वस्य सतो वृद्धिः-वर्द्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपण दीर्धीकरणं क्षेत्रवृद्धिः, यथा-किल केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतवयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति चतुर्थः ४। तथा स्मृतेः-स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना भ्रंशो-ध्वंसः स्मृतिभ्रंशः, तथाहि-केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत्, गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पञ्चाशत् ? तस्य चैवमस्मृतौ पञ्चाशतमतिक्रामतोऽतिचारः शतमतिक्रामतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाचेति, तस्मात् स्मर्त्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति पञ्चमोऽतिचारः ५। इह चायं वृद्धसम्प्रदायः-यदि : स्मृतिभ्रंशेनानाभो
Jain Education
a
l
For Private & Personel Use Only
law.jainelibrary.org