________________
संग्रह
वधिना रूप्यादिसङ्ख्या विहिता, तेन च तुष्टराजादेः सकाशात्तदधिकं तल्लब्धं, तचान्यस्मै व्रतभङ्गभयाद्द
दाति, पूर्णेऽवधौ ग्रहीष्यामीतिभावनयेति व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाचातिचार इति ३ । गोम॥१०७॥
नुष्यादेगर्भतः सङ्ख्यातिक्रमो यथा-किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं, तेषां । च संवत्सराद्यवधिमध्य एव प्रसवेऽधिकद्विपदादिभावाद्वतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततभावेन च कथञ्चिद्वतभङ्गादतिचारः ४ । कुप्यस्य भावतः सङ्ख्यातिक्रमो यथा-कुप्यस्य या सङ्ख्या कृता तस्याः कथञ्चिविगुणत्वे भूते सति व्रतभङ्गभयात्तेषां येन द्वयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणेन सङ्ख्यापूरणात् स्वाभाविकसङ्ख्याबाधनाचातिचारः५ । अन्ये त्वाहुः-तदर्थित्वेन विवक्षितकालावधेः परतोऽहमेतत्करोटिकादि कुप्यं ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयतोऽतिचारः । पञ्चेत्युपलक्षणमन्येषां सहसाकारानाभोगादीनामिति ॥४८॥ उक्ता अणुव्रतानां प्रत्येकं पञ्च पश्चातिचाराः। अथ गुणवतानामतिचाराभिधानावसरः, तत्रापि प्रथमं प्रथमगुणव्रतस्य
दिग्विरमणलक्षणस्यातिचारानाह|| मानस्य निश्चितस्योर्ध्वाधस्तिर्यक्षु व्यतिक्रमाः । क्षेत्रवृद्धिः स्मृतिभ्रंशः, स्मृता आद्यगुणवते ॥४९॥3
उद्धोधस्तिर्यक्षु निश्चितस्य मानस्य व्यतिक्रमाः क्षेत्रवृद्धिः स्मृतिभ्रंशश्चेति पञ्चातिचाराः 'आद्यगुणव्रते, दिग्विरमणाख्ये स्मृताः' जिनैरित्यन्वयः, तत्र उष्व-पर्वतशिखरादौ अधो-भूमिगृहादौ तिर्यक्-पूर्वादिदिक्षु निश्चि
॥१०७॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org