________________
Jain Education In
मुचितम्, अतो धनधान्यादिसङ्ख्ययातिचाराणां गणनमुपपन्नमिति धर्मविन्दुवृत्तौ ॥ ४७ ॥ ननु प्रतिपन्न - सङ्ख्यातिक्रमा भङ्गा एव स्युः, कथमतिचाराः ? इत्याह
"बन्धनात् योजनात् दानात्, गर्भतो भावतस्तथा । कृतेच्छापरिमाणस्य, न्याय्याः पञ्चापि न ह्यमी ॥४८॥”
' बन्धनात् ' 'योजनात्' 'दानात्' 'गर्भतः' 'भावतः' 'अमी' गृहीतसङ्ख्यातिक्रमाः 'पञ्चापि' पञ्चसङ्ख्याका अपि 'कृतेच्छापरिमाणस्य' प्रतिपन्नपञ्चमव्रतस्य श्रावकस्य 'न न्याय्याः' न घटमाना व्रतमालिन्यहेतुत्वाद्, अयं भावः - न साक्षात्सङ्ख्यातिक्रमाः, किंतु व्रतसापेक्षस्य बन्धनादिभिः पञ्चभिर्हेतुभिः खबुद्ध्या व्रतभङ्गमकुर्वत | एवातिचारा भवन्ति । बन्धनादयश्च यथासङ्ख्येन धनधान्यादीनां परिग्रहविषयाणां सम्बध्यते, तत्र धनधान्यस्य बन्धनात्सङ्ख्यातिक्रमो यथा - कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति, तश्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृह्णतः धनादिविक्रये वा कृते ग्रहीष्यामीतिभावनया बन्धनात् नियन्त्रणात् रज्ज्वादिसंयमनात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्नेह एवं स्थापयतोऽतीचारः १ । तथा क्षेत्रवास्तुनो 'योजनात्' क्षेत्रवास्त्वन्तरमीलनाद् गृहीतसङ्ख्यातिक्रमोऽतिचारो भवति, तथाहि - किलैकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तगृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्तिभित्त्याद्यपनयने च तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाचा - तिचारः २ । तथा रूप्यसुवर्णस्य 'दानात्' वितरणात्, गृहीतसङ्ख्याया अतिक्रमः, यथा - केनापि चतुर्मासाद्य
For Private & Personal Use Only
jainelibrary.org