________________
धर्म
॥ १०६ ॥
तु कुंकुमगुडाई । मेजं चोपडलोणाइ, रयणवत्थाइ परिछेनं ॥ १ ॥" धान्यं चतुर्विंशतिधा, व्रताधिकार एवोक्तं सप्तदशधापि, यतः - "साली १ जव २ वीहि ३ कुद्दव ४ रालय ५ तिल ६ मुग्ग ७ मास ८ चवल ९ चिणा १० | तुवरि ११ मसूर १२ कुलत्था १३, गोहुम १४ निष्फाव १५ अयसि १६ सणा १७ ॥ १ ॥” धनं च धान्यं चेति समाहारः, अत्राग्रे च समाहारनिर्देशात्परिग्रहस्य पञ्चधात्वेनातिचारपञ्चकं सुयोजं भवति १ । क्षेत्रं- सस्योत्पत्तिभूमिः, तत्रिविधं सेतुकेतूभयात्मकभेदात्, तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते १ केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यं २ उभयमुभयजलनिष्पाद्यसस्यं ३ । वास्तु- गृहादि ग्रामनगरादि च । तत्र गृहादि त्रेधा खातं भूमिगृहादि १ उच्छ्रितं प्रासादादि २ खातोच्छ्रितं भूमिगृ होपरिगृहादिसन्निवेशः ३ । क्षेत्रं च वास्तु चेति समाहारद्वन्द्वः २ । तथा रूप्यं रजतं, घटितमघटितं चानेकप्रकारम्, एवं सुवर्णमपि, रूप्यं च स्वर्ण चेति समाहारः ३ । गावश्च मनुष्याश्चेति गोमनुष्यं तदादि यस्येति समासः, गवादि मनुष्यादि चेत्यर्थः, तत्र गवादि-गोमहिषमेषाविककरभसरभहस्त्यश्वादि, मनुष्यादि-पुत्रकलत्रदासदासीकर्मकर शुकसारिकादि ४ । तथा कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहताम्रसीसकत्रपुमृद् भाण्डत्वचिसारविकारोदङ्किकाष्ठमञ्चकमञ्चिकामसूरकरथशकटहलादिगृहोपस्कररूपमिति ५ । 'यच्चात्र क्षेत्रा दिपरिग्रहस्य नवविधत्वेन नवविधसङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यात्वमुक्तं, तत्सजातीयस्त्वेन शेषभेदानामत्रैवान्तर्भावात् शिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगतेर्विवक्षितत्वात्पञ्चकसङ्घययैवातिचारपरिगणन
Jain Education International
For Private & Personal Use Only
संग्रह -
॥ १०६ ॥
w.jainelibrary.org