________________
Jain Education Int
इत्वरकालं या परेण भाव्यादिना गृहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित्परदारत्वातस्याः, लोके तु परदारत्वारूढेर्न भङ्ग इत्यतिचारता १ । अनात्तायामनाथकुलाङ्गनायां या गतिः परदारवर्जिनः सोऽप्यतिचारो, लोके परदारत्वेन तस्या रूढत्वात् वास्तवकल्पनया च परस्य भर्त्तुरभावेनापरदारत्वाच्च २ । शेषास्तु त्रयो द्वयोरपि भवेयुः । स्त्रियस्तु खपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः, खपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् । परविवाहकरणमनङ्गक्रीडनं कामतीवरागश्चेति त्रयः खदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति । पञ्च वा, कथं ? इत्वरात्तगमनं तावत्सपत्नीवारकदिने स्वपतिः सपत्नीपरिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुञ्जानाया अतिचारः, अनात्तगमस्त्वतिक्रमादिना पर पुरुषमभिसरन्त्या अतिचारः, ब्रह्मचारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः, शेषास्त्रयः स्त्रियाः पूर्ववत् । ब्रह्मचारिणस्तु पुंसः स्त्रियो वाऽतिक्रमादिनैव सर्वेऽप्यतिचारा इति ध्येयं ॥ ४६ ॥ अथ पञ्चमव्रतस्यातिचारानाह
धनधान्यं क्षेत्रवास्तु, रूप्यस्वर्ण च पञ्चमे । गोमनुष्यादि कुप्यं चेत्येषां सङ्ख्याव्यतिक्रमाः॥ ४७ ॥ 'धनधान्यं' 'क्षेत्रवास्तु' 'रूप्यखर्ण' 'गोमनुष्यादि' 'कुप्यं' चेति पञ्चानां सङ्ख्या- यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्या ये अतिक्रमाः- उल्लङ्घनानि ते 'पञ्चमे' पञ्चमाणुव्रतेऽतिचारा ज्ञेयाः । तत्र 'धनं' गणिम १ धरिम २मेय३ पारिच्छेद्य४भेदाच्चतुर्द्धा यदाह - "गणिमं जाईफलफोफलाई, धरिमं
For Private & Personal Use Only
jainelibrary.org