SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥१०५॥ कुनाति, केशाकर्षणप्रहारदानदन्तनखकदर्थनादिप्रकारेण मोहनीयकर्मावेशात्तथा क्रीडति यथा बलवान् रागः प्रसूयते, अथवा अङ्गं-देहावयवो मैथुनापेक्षया योनिर्मेहनं च, तद्व्यतिरिक्तान्यनङ्गानि-कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति चतुर्थः ४। तथा तीव्रराग:-अत्याग्रहः अर्थात् मैथुने परित्यक्तान्यसकलव्यापारस्य तद्ध्यवसायता योषामुखकक्षोपस्थान्तरेषु अवितृप्ततया प्रक्षिप्य लिङ्गं महती वेलां निश्चलो मृत ए(इ)वास्ते, चटक इव चटिकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुते, अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमी च पुरुषो भवतीति बुद्ध्येति पञ्चमः ५। इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति, तदा यापनामात्रार्थ खदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेण च यापनायां सम्भवत्यामनङ्गक्रीडनकामतीव्ररागावर्थतः प्रतिषिद्धी, तत्सेवने च न कश्चिद्गुणः, प्रत्युत तात्कालिकीछिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति, एवं प्रति|षिद्धाचरणाद्भङ्गो नियमावाधनाचाभङ्ग इत्यतिचारावेतौ । अन्ये त्वन्यथाऽतिचारद्वयमपि भावयन्ति-स हि खदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति खबुद्ध्या वेश्यादौ तत्परिहरति नालिङ्गनादि, परदारवर्जकोऽपि परदारेषु मैथुनं परिहरति नालिङ्गनादि, इति कथञ्चिद्वतसापेक्षत्वादतिचारौ । एवं खदारसन्तो-IN |षिणः पञ्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितं । अन्ये त्वन्यथाऽतिचारान् विचारयन्ति, यथा "परदारवज्जिणो पंच हुंति तिनि उ सदारसंतुढे । इत्थी उ तिन्नि पंच व, भंगविगप्पेहि अइआरा ॥१॥" ॥१०५॥ Join Education in For Private Personal Use Only Mainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy