SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ऽपि सामानाधिकरण्ये विशेषणं विशेष्येणेति समासः) अथवा इत्वरकालमात्ता इत्वरात्ता मयूरव्यंसकादित्वात् समासः(श्रीसि०३-२-११६) कालशब्दलोपश्च, अनात्ता च इत्यरात्ता चेति इन्द्रः, तयोर्गमः-आसेवनम् । इयं चात्र भावना-अनात्तागमोऽनाभोगादिनाऽतिचारः, इत्वरात्तागमस्तु भाटीपदानादित्वरकालखीकारेण खकलत्रीकृत्य वेश्यां सेवमानस्य खवुद्धिकल्पनया खदारत्वेन व्रतसापेक्षत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादतिचारः २ । इमौ चातिचारौ खदारस-13 न्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेनानात्तायास्त्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा द्वयोरपि । इदं च हरिभद्रसूरिमतं, सूत्रानुपाति च, यदाहु:-"सदारसंतोसस्स पंचइआरा जाणिअव्वा न समायरिअव्वा" । अन्ये त्वाहः-इत्वरात्तागमः खदारसन्तोषवतोऽतिचारः, तत्र भावना कृतैव, अनात्तागमस्तु परदारवर्जिनः, अनात्ता हि वेश्या, यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात्कथञ्चित्परदारत्वाच भङ्गत्वेन वेश्यात्वाचाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः इति द्वितीयतृतीयौ २-३ । तथाऽनङ्ग:-कामः, स च पुंसः स्त्रीनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात्, योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा, एषोऽनङ्गः नान्यः कश्चित् , तेन तस्मिन् वा क्रीडनं-रमणमनङ्गक्रीडनं, यद्वा आहायः काष्ठपुस्तफलमृत्तिकाचर्मादिघटितप्रजननैः खलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः| ONGCHOROSAROSECSCRCMCSC060 Jain Education For Private Personel Use Only Mjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy