________________
धर्म
॥ १०४ ॥
यनविधानम्, इदं च खदारसन्तोषवता स्वकलत्रात्परदारवर्जकेन च स्वकल वेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्य न च कारणीयमिति यदा प्रतिपन्नं भवति, तदा परवीवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्वती तु मन्यते -विवाह एवायं मया विधीयते, न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिथ्यादृष्टस्तु भद्रकावस्थायामनुग्रहार्थे व्रतदाने सा सम्भवति । नन्वन्यविवाहनवत्वापत्यविवा हनेऽपि समान एव दोषः ?, सत्यं, यदि स्वकन्या न परिणाय्यते, तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघातः स्यात्, विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात्, परेऽप्याहुः - “पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने । पुत्रास्तु स्थावरे भावे, न स्त्री स्वातत्रयमर्हति ॥ १ ॥” यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च खापत्येष्वपि विवाह - नियमः श्रूयते स चिन्तकान्तरसद्भावाद्रष्टव्यः । तथा चान्यस्यापि श्रावकस्यान्यचिन्तकसद्भावे तथैव न्याय्यः, अन्यचिन्ताकर्त्रभावे तु यथानिर्वाहं विवाहसङ्ख्यानियमो युक्तः । अन्ये त्वाहु:- परस्य-कलत्रान्तरस्य सत्यपि सज्जकल विशिष्टसन्तोषाभावात्पुनः स्वयं विवाहनं परविवाहनम्, अयं खदारसन्तुष्टस्यातिचारः प्रथमः १ । तथा अनाप्ता-अपरिगृहीता, वेश्या खैरिणी प्रोषितभर्तृका कुलाङ्गना वाऽनाथा, तथा ४ ॥ १०४ ॥ इत्वरी प्रतिपुरुषमयनशीला वेश्येत्यर्थः सा चासावात्ता च कञ्चित्कालं भाटीप्रदानादिना सङ्गृहीता, पुंवद्भावे इत्वरात्ता विस्पष्टपटुवत्समासः (नाम नाम्नैकार्थे समासो बहुलम् श्रीसि०३-१-१८ इत्यस्य लक्षणत्वाद्गौणे
Jain Education International
For Private & Personal Use Only
संग्रह.
vjainelibrary.org