SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १०४ ॥ यनविधानम्, इदं च खदारसन्तोषवता स्वकलत्रात्परदारवर्जकेन च स्वकल वेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्य न च कारणीयमिति यदा प्रतिपन्नं भवति, तदा परवीवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्वती तु मन्यते -विवाह एवायं मया विधीयते, न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिथ्यादृष्टस्तु भद्रकावस्थायामनुग्रहार्थे व्रतदाने सा सम्भवति । नन्वन्यविवाहनवत्वापत्यविवा हनेऽपि समान एव दोषः ?, सत्यं, यदि स्वकन्या न परिणाय्यते, तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघातः स्यात्, विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात्, परेऽप्याहुः - “पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने । पुत्रास्तु स्थावरे भावे, न स्त्री स्वातत्रयमर्हति ॥ १ ॥” यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च खापत्येष्वपि विवाह - नियमः श्रूयते स चिन्तकान्तरसद्भावाद्रष्टव्यः । तथा चान्यस्यापि श्रावकस्यान्यचिन्तकसद्भावे तथैव न्याय्यः, अन्यचिन्ताकर्त्रभावे तु यथानिर्वाहं विवाहसङ्ख्यानियमो युक्तः । अन्ये त्वाहु:- परस्य-कलत्रान्तरस्य सत्यपि सज्जकल विशिष्टसन्तोषाभावात्पुनः स्वयं विवाहनं परविवाहनम्, अयं खदारसन्तुष्टस्यातिचारः प्रथमः १ । तथा अनाप्ता-अपरिगृहीता, वेश्या खैरिणी प्रोषितभर्तृका कुलाङ्गना वाऽनाथा, तथा ४ ॥ १०४ ॥ इत्वरी प्रतिपुरुषमयनशीला वेश्येत्यर्थः सा चासावात्ता च कञ्चित्कालं भाटीप्रदानादिना सङ्गृहीता, पुंवद्भावे इत्वरात्ता विस्पष्टपटुवत्समासः (नाम नाम्नैकार्थे समासो बहुलम् श्रीसि०३-१-१८ इत्यस्य लक्षणत्वाद्गौणे Jain Education International For Private & Personal Use Only संग्रह. vjainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy