SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ FASGANGANA वा, मञ्जिष्टादेश्चित्रकादि, जात्यकर्पूरमणिमौक्तिकसुवर्णरूप्यादीनां कृत्रिमतत्तदादि, तेन प्रतिरूपण 'क्रिया व्यवहारः, व्रीह्यादिषु पलच्यादि प्रक्षिप्य तत्तद्विक्रीणीते, यद्वाऽपहृतानां गवादीनां सशृङ्गाणामग्निपक्ककालिङ्गीफलखेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्त्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोतीति पञ्चमः ५। मानविप्लवः प्रतिरूपक्रिया च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौर्य प्रसिद्धं, मया तु वणिक्कलैव कृतेतिभावनया व्रतरक्षणोद्यतत्वादतिचार इति । अथवा स्तेनाहृतग्रहादयः पश्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिनाऽतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते, न चैते राजसेवकादीनां न है संभवन्ति, तथा हि-आद्ययोः स्पष्ट एव तेषां सम्भवः, विड्राज्यगतिस्तु यदा सामन्तादिः कश्चित्वस्वामिनो वृत्तिमुपजीवति, तद्विरुद्धस्य च सहायो भवति, तदा तस्यातिचारो भवति, मानविप्लवः प्रतिरूपक्रिया च यदा राजा भाण्डागारे मानान्यत्वं द्रव्याणां विनिमयं च कारयति तदा राज्ञोऽप्यतिचारो भवति ॥ ४५ ॥ | इति प्रोक्तास्तृतीयत्रतातिचाराः । अथ चतुर्थव्रतस्य तानाह परवीवाहकरणं, गमोऽनात्तेवरात्तयोः । अनङ्गक्रीडनं तीव्ररागश्च ब्रह्मणि स्मृताः ॥ ४६॥ परवीवाहकरणमनात्तागम इत्यरात्तागम अनङ्गक्रीडनं कामतीव्ररागश्चेति 'ब्रह्मणि' तुर्यव्रते पञ्चातिचाराः, तत्र परेषां-खखापत्यव्यतिरिक्तानां वीवाहकरणं-कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिण G AR Jan Education inte For Private Personal use only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy