SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ H धर्म संग्रह ॥१०३॥ CANCESCARSAMACOCALAM ऽहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये इत्येवंविधवचनैश्चौरान व्यापारयतः खकल्पनया तयापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः २ । तथा मीयते अनेनेति मान-कुडवादि पलादि हस्तादि वा, तस्य विप्लवो-विपर्यासः अन्यथाकरणं हीनाधिकत्वमितियावत्, हीनमानेन ददाति अधिकमानेन च गृह्णातीत्ययमपि तत्त्वतश्चौर एव, यदाह-"लौल्येन किश्चित्कलया च किञ्चिन्मापेन किञ्चित्तुलया च किञ्चित् । किञ्चिच्च किश्चिच समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥१॥ अधीते यत्किञ्चित्तदपि मुषितुं ग्राहकजनं, मृदु ब्रूते यद्वा तदपि विवशीकर्तुमपरम् । प्रदत्ते यत्किञ्चित्तदपि समुपादातुमधिकं, प्रपञ्चोऽयं वृत्तेरहह गहनः कोऽपि वणिजाम् ? ॥ २ ॥" नचैवं श्रावकस्य युज्यत इति तृतीयोऽतिचारः ३। तथा द्विषो-विरुद्धयो राज्ञोरिति गम्यं, राज्यं-नियमितभूमिः कटकं वा तत्र गतिः-गमनं द्विराज्यगतिः, राज्ञाऽननुज्ञाते गमनमित्यर्थः, द्विराज्यगमनस्य यद्यपि वस्वामिनाऽननुज्ञातस्य 'सामी जीवादत्तं, तित्थयरेणं तहेवय गुरूहिं' इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वागतभङ्ग एव, तथापि द्विराज्यगतिं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमितिभावनया व्रतसापेक्षत्वाल्लोके च चौरोध्यमिति व्यपदेशाभावादतिचारता, उपलक्षणत्वाद्राजनिषिद्धवस्तुग्रहणमपि तथेति चतुर्थोऽतिचारः४।'च' पुनः प्रतिरूप-सदृशं वीहीणां पलञ्जि, घृतस्य वसा, तैलस्य मूत्रं, हिङ्गोः खदिरादिवेष्टश्चणकादिपिष्टं गुन्दादि वा, कुङ्कमस्य कृत्रिमं तत् कुसुम्भादि। ॥१०३० Jan Education in For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy