________________
चारता घटते, तथापि मनितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसंभवेन परमार्थतोऽस्यासत्यत्वात्कथञ्चिद्भङ्गरूपत्वेनातिचारतैव, गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु खयं मन्त्रयित्वैव मनं भिनत्तीत्यनयोर्भेद इति पञ्चमोऽतिचारः ५ ॥४४॥ अथ तृतीयत्रतातिचारानाह
स्तेनाहृतग्रहस्तेनप्रयोगौ मानविप्लवः । द्विराज्यगतिरस्तेये, प्रतिरूपेण च क्रिया ॥४५॥ 'स्तेनाहृतग्रहस्तेनप्रयोगौं 'मानविप्लवो' व्यत्ययो '
द्विराज्यगतिः 'प्रतिरूपेण क्रिया' चेति 'अस्तेये' अदत्ता-18 दानविरमणरूपे तृतीयाणुव्रते प्रकरणात्पश्चातिचारा ज्ञेया इति गम्यं । तत्र स्तेना-चौरास्तैराहृतम्-आनीतं कनकवस्त्रादि तस्य ग्रहः-आदानं मूल्येन मुधिकया वा स स्तेनाहृतग्रहः, स्तेनाहृतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं ग्रहणंश्चौरो भवति, यतो नीतिः "चौरश्चौरापको मन्त्री, भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चेति, चौरः सप्तविधः स्मृतः॥१॥” इति । ततश्चौर्यकरणादतभङ्गो वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाचाभङ्ग इति भङ्गाभङ्गरूपः प्रथमोऽतिचारः १ तथा स्तेनानां प्रयोगः-अ
भ्यनुज्ञानं हरत यूयमिति हरणक्रियायां प्रेरणेतियावत्, अथवा स्तेनोपकरणानि-कुशिकाकतरिकाघरि| कादीनि तेषामर्पणं विक्रयणं वा स्तेनप्रयोगः, अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नव-13
तस्य स्तेनप्रयोगो व्रतभङ्ग एव, तथापि किमधुना यूयं निर्व्यापारास्तिष्ठत ? यदि वो भक्तादि नास्ति तदा
प.से.१८॥
Jain Education indi)
For Private & Personal Use Only
Mainelibrary.org