SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ संग्रह. 6-64594 ॥१०२॥ -ASCHECCALCACASS दात परपीडाकरणे उपदेशेऽतिचारो यथा-वाद्यन्तां खरोष्ट्रादयो, हन्यन्तां दस्यव इति, यदा यथास्थितोऽर्थस्तथोपदेशः साधीयान , विपरीतस्तु अयथार्थोपदेशो यथा परेण संदेहापन्नेन पृष्टे न तथोपदेशः, यदा विवाहे स्वयं परेण वा अन्यतराभिसंधानोपायोपदेशः, अयं च यद्यपि मृषा वादयामीत्यत्र व्रते भङ्ग एव, न बदामीति व्रतान्तरे न किश्चन, तथापि सहसाकारानाभोगाभ्यामतिक्रमादिभिर्वा मृषावादे परप्रवर्तनं व्रतस्यातिचारः, अथवा व्रतसंरक्षणवुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसापेक्षत्वान्मृषावादे परप्रवर्तनाच भग्नाभग्नरूपत्वागतस्येति द्वितीयोऽतिचारः २। तथा 'गुह्यं गूहनीयं न सर्वस्मै | यत्कथनीयं राजादिकार्यसंबद्धं तस्यानधिकृतेनैवाकारेङ्गितादिभित्विाऽन्यस्मै प्रकाशनं गुह्यभाषणं यथाएते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा गुह्यभाषणं-पैशून्यं यथा-द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति, अस्याप्यतिचारत्वं रहस्याभ्याख्यानवहास्यादिनैवेति तृतीयोऽतिचारः । तथा कूटम्-असद्भूतं तस्य लेखो-लेखनं कूटलेखः, अन्यसरूपाक्षरमुद्राकरणं, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य न वदामि न वा वादयामीत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिनाऽतिक्रमादिना वाऽतिचारः, अथवाऽसत्यमित्यसत्यभणनं मया प्रत्याख्यातं, इदं पुनर्लेखनमितिभावनया व्रतसापेक्षस्यातिचार एवेति चतुर्थः ४ तथा विश्वस्ता-विश्वासमुपगता ये मित्रकलत्रादयस्तेषां मनो-मन्त्रणं तस्य भेदः-प्रकाशनं, तस्यानुवादरूपत्वेन सत्यत्वाद्यद्यपि नाति ९०२॥ For Private Personal Use Only Jaw.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy