________________
धबन्धादावतिचारः ३, जीवहिंसादौ त्वनाचारः४ । वधादिग्रहणस्य चोपलक्षणत्वात्क्रोधादिना हिंसादिहेतुमनतन्त्रौषधप्रयोगादयोऽन्येऽप्यतिचारतयाऽत्र व्रतेऽवगन्तव्याः ॥ ४३ ॥ अथ द्वितीयव्रतस्यातिचारानाह
सहसाभ्याख्यानं मिथ्योपदेशो गुह्यभाषणम् । कूटलेखश्च विश्वस्तमन्त्रभेदश्च सनते ॥४४॥ सत्यव्रते पञ्चातिचाराः ज्ञेयाः, तत्र सहसा-अनालोच्य 'अभ्याख्यानं' असदोषाध्यारोपणं यथा-चौरस्त्वं पारदारिको वेत्यादि । अन्ये त्वस्य स्थाने रहस्याभ्याख्यानं पठन्ति, व्याचक्षते च-रहः-एकान्तस्तत्र भवं रहस्यं, रहस्येनाभ्याख्यानम्-अभिशंसनमसद्ध्यारोपणं रहस्याभ्याख्यानं, यथा वृद्धायै वक्ति 'अयं ते भर्ता तरुण्यामतिप्रसक्तः' तरुण्यै वक्ति 'अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि प्रसक्तः' तथा 'अयं खर
कामो मृदुकामः' इति वा परिहसति, तथा स्त्रियमभ्याख्याति भर्तुः पुरतः यथा-पत्नी ते कथयति-एवमयं है। मां रहसि कामगर्दभः खलीकुरुते, अथवाऽहं पत्योः' अन्यस्य वा पुंसः स्त्रियो वा येन रागप्रकर्ष उत्पद्यते,
तेन तादृशा रहस्येनानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना, न त्वभिनिवेशेन, तथा सति व्रतभङ्ग एव स्थात्, अस्यासदोषाभिधानरूपत्वेन प्रत्याख्यातत्वात्, यदाह-"सहसभक्खाणाई, जाणंतो जइ करेज तो भंगो । जइ पुणणाभोगाईहिंतो तो होइ अइआरो॥१॥” इत्थं च परोपघातकमनाभोगादिनाभिधत्ते
तदा सक्लेशाभावेन ब्रतानपेक्षवाभावान्न व्रतभङ्गः, परोपघातहेतुत्वाच भङ्ग इति भङ्गाभङ्गरूपः प्रथमो में द्र तिचारः १ मिथ्योपदेशः' असदुपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमा
Jain Education inp
al
For Private & Personel Use Only
A
w
.jainelibrary.org