________________
धर्म
॥ १०१ ॥
हिंसाविरतेर खण्डितत्वात्, अथ बन्धादयोऽपि प्रत्याख्याताः ? तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्, किंच-बन्धादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्येत प्रतिव्रतमतिचाराणामाधिक्यादिति, एवं च न बन्धादीनामतिचारतेति, उच्यते, सत्यं हिंसैव प्रत्याख्याता, न बन्धादयः केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेषां । एवं चेत्तर्हि वधादिकरणे व्रतभङ्ग एव, नातिचारो, नियमस्यापालनात्, मैवं, यतो द्विविधं व्रतम्-अन्तर्वृत्त्या बहिर्वृत्या च तत्र मारयामीतिविकल्पाभावेन यदा कोपाद्यावेशान्निरपेक्षतया वधादौ प्रवर्त्तते, न च हिंसा भवति, तदा निर्दयतया विरत्यनपेक्षप्रवृत्तत्वे नान्तर्वृत्त्या तस्य भङ्गः, हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति, देशस्यैव भञ्जनाद्देशस्यैव पालनादतिचाव्यपदेशः प्रवर्त्तते, तदुक्तम् - "न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचार : ? । निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमानपेक्षः ॥ १ ॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपादयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥ २ ॥" यच्चोक्तं 'व्रतेयत्ता विशीर्येत' इति, तदयुक्तं, विशुद्धाहिंसासद्भावे हि वधादीनामभाव एव तत्स्थितमेतत्-बन्धादयोऽतिचारा एवेति यदाऽनाभोगसह साकारादिनाऽतिक्रमादिना वा सर्वत्रातीचारता ज्ञेया, तत्राना भोगोऽसावधानता सहसाकारोऽविमृश्यकारित्वम् आहुश्च - "पुव्वं अपासिऊणं, छूढे पायंमि जं पुणो पासे । नय तरह निअत्तेउं, पायं सहसाकरणमेअं ॥ १ ॥" अतिक्रमादिस्वरूपं च व्रतभङ्गाय केनचिन्निमन्त्रणे कृतेऽप्रतिषेधादतिक्रमः १, गमनादिव्यापारे तु व्यतिक्रमः २, क्रोधा
Jain Education International
For Private & Personal Use Only
संग्रह.
॥ १०१
www.jainelibrary.org