SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ करोति विनयं, तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृतिर्वा ताडयेत् ॥ बन्धोऽपि तथैव, नवरं निरपेक्षो निश्चलमत्यर्थ च बन्धनं, सापेक्षो यो दामग्रन्थिना शिथिलेन, यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते, एवं चतुष्पदानां बन्धो, द्विपदानामपि दासदासीचौरपारदारिकप्रमत्तपुत्रादीनां यदि बन्धः तदा सविक्रमणा एव बन्धनीयाः, रक्षणीयाश्च, यथाऽग्निभयादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एव संग्रहीतव्या ये अबद्धा एवासते २ । छविश्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यनिर्दयं छिनत्ति, सापेक्षः पुनर्गडं वा अरुर्वा छिन्द्यादा दहेदेति । तथाऽतिभारोऽपि नारोपयितव्यः, पूर्वमेव हि द्विपदादिवाहनेन याऽऽजीविका सा श्रावकेण मोक्तव्या, अथान्या सा न भवेत् , तदा द्विपदो यं भारं स्वयमुत्क्षिपति अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारः किश्चिदूनः क्रियते हलशकटादिषु, पुनरुचितवेलायामसौ मुच्यते ४ । तथा भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः, तीक्ष्णबुभुक्षो ह्येवं सति म्रियते, खभोजनवेलायां तु ज्वरितादीन् विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत, भक्तपाननिषेधोऽपि सार्थकानर्थकभेदभिन्नो बन्धवद्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात्, अपरा|धकारिणि च वाचैव वदेदु-अद्य ते भोजनादिन दास्यते, शान्तिनिमित्तं चो(वो)पवासादि कारयेत् , किंबहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनीयं । अतः पडकछागोत्पत्त्यादिकबहुदोषहेतुं महिष्यजादिसङ्ग्रहं च वर्जयेदिति । ननु हिंसैव श्रावकेण प्रत्याख्याता, ततो बन्धादिकरणेऽपि न दोषो, For Private & Personal Use Only jainelibrary.org Jain Education Intel
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy