________________
S
खतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे च षडिकल्पाः। तथा नास्ति जीवः | परतः कालत इति षडेव विकल्पाः। एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एकत्र सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । “अण्णाणिय सत्तहित्ति” अज्ञानिकानां सप्तषष्टिर्भेदा इति । तत्र कुत्सितं ज्ञानमज्ञानं, तदेषामस्तीति अज्ञानिकाः । नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं, ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वात् गौरखरवदण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः, असंवित्त्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणा अमुनोपायेन सप्तषष्टिातव्याः-तत्र जीवादिनवपदार्थान्पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वमसत्त्वं, सदसत्त्वं, अवाच्यत्वं, सदवाच्यत्वं, असदवाच्यत्वं, सदसवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नवसप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पास्तद्यथा-सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तपष्टिर्भवन्ति । को जानाति जीवः सन् ? इत्येको विकल्पः, ज्ञातेन वा किं?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति, को जानातीत्येतत् ? न कश्चिदपीत्यभिप्रायः । “वेणइयाणं च बत्तीसंति" वैनयिकानां च द्वात्रिंशद्भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा अमुनोपायेन
ARARSASARAKASS
Jain Education
2
For Private & Personal Use Only
Mirrjainelibrary.org