________________
Jain Education Int
यथापि हि क्रिया दृश्यन्ते, सफला निष्फलाश्च कृषीवलादीनाम्, अत इयमपि तथा संभाव्यते, इति विचिकित्सापि भगवद्वचनानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः । इह द्रव्यगुणविषयायाः शङ्कायाः क्रियाविषयत्वेनास्या भेदः । यद्वा विचिकित्सा सदाचारमुनीनामपि मलविषयिणी निन्दा, यथा- अस्नानेन प्रखेदजलक्लिन्नमलत्वाद्दुर्गन्धविषय इति । को दोषः स्याद्यदि प्रासुकवारिणा अङ्गक्षालनं कुर्वीरन्निति ? । इयमपि तत्त्वतो भगवद्धर्मानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः ३ । तथा कुत्सिता जिनागमविपरीतत्वात् दृष्टिदर्शनं येषां ते कुदृष्टयो- मिथ्यादृष्टयस्तेषां सर्वज्ञप्रणीतदर्शनव्यतिरिक्तानां शाक्यकपिलकणादाक्षपादादिप्रणीतमतवर्त्तिनां, पाखण्डिनामित्यर्थः, प्रशंसा-स्तुतिः, 'पुण्यभाज एते, सुलब्धमेषां जन्म, दयालव एते' इत्यादिका, इयं तु व्यक्तमेव सम्यक्त्वदूषणं ४। तैः कुदृष्टिभिश्चैकत्र संवासात् परस्परालापादिजनितपरिचयः संस्तवः, एकत्रवासे हि तत्प्रक्रियाश्रवणात्तत्क्रियादर्शनाच्च दृढसम्यक्त्वस्यापि दृष्टिभेदः संभाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्येति तत्संस्तवोऽपि दूषणं ५ । पाखण्डिनां चौघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति, यत उक्तम्- असिइसयं किरियाणं अकिरियवाईण होइ चुलसीई । अण्णाणिय सत्तट्ठी, वेणइयाणं च बत्तीसं ॥ १ ॥ इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते - 'असिइसयं किरि - याणं अशीत्युत्तरं शतं क्रियावादिनां तत्र न कर्त्तारं विना क्रिया संभवति, तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या
For Private & Personal Use Only
jainelibrary.org