________________
धर्म
॥ ९७ ॥
Jain Education In
शङ्कनं च काङ्क्षणं चेति द्वन्द्वस्ततस्ते, विचिकित्सा, कुदृष्टीनां प्रशंसा, तैश्च संस्तवश्चेति पञ्चातिचारा: 'सम्यक्त्वे' सम्यक्त्वविषये 'हेयाः' त्याज्याः । तत्र शङ्कनं शङ्का सन्देह इतियावत्, तच देशविषयं सर्वविषयं च, तत्र सर्वविषयम् - अस्ति नास्ति वा धर्म इत्यादि, जिनधर्मः सत्योऽसत्यो वेत्यादि वा, देशसङ्कनं तु एकै कवस्तुधर्मगोचरं, यथाऽस्ति जीवः परं सर्वगतोऽसर्वगतो वा, सप्रदेशोऽप्रदेशो वा पृथ्व्यादीनां कथं सजीवत्वं ? निगोदादयो वा कथं घटन्ते ? इत्यादि, द्विधाप्यर्हदुक्ततत्त्वेष्वप्रत्ययरूपं सम्यक्त्वदूषकं ९ । काङ्क्षणं - अन्यान्यदर्शनग्रहः, तदपि देशविषयं सर्वविषयं च सर्वविषयं सर्वपाखण्डिधर्माकाङ्क्षारूपं, देशकाङ्क्षणं त्वेकादिदर्शनविषयं यथा सुगतेन भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानान्नपानाच्छादनशयनीयादिषु सुखानुभवद्वारेण यदाह - "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराण्हे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥ एतदपि घटमानकमेवेति । तथा परिव्राजक भौतब्राह्म| णादयः स्नानादिपरायणा विषयानुपभुञ्जाना एव परलोकेऽप्यभीष्टसुखेन युज्यन्ते इति साधीयानेषो धर्म इत्यादि, दृश्यन्ते हि मुग्धबुद्धयः स्थलनिम्नक्षेत्रभूवीजवापककर्षुकवत् धर्मार्थितया सर्वदर्शनान्याराधयन्तः, एवं च काङ्क्षणमपि परमार्थतो भगवदत्प्रणीतागमानाश्वासरूपं सम्यक्त्वं दूषयति २ । विचिकित्सा चित्तविप्लवः फलं प्रति सन्देह इत्यर्थः, स च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपः क्लेशस्य सिकता कणकवलवन्निः खाद्स्यायत्यां फलसंपद्भवित्री ? अथ क्लेशमात्रमेवेदं निर्जराफलविकलमिति ?, उभ
For Private & Personal Use Only
संग्रह.
॥ ९७ ॥
jainelibrary.org