________________
तावतिचारा भवन्ति, शेषाणामुदये तु मूलच्छेद्यमेव तस्यामिति" एवं च न देशविरतावतिचाराभावो । यदप्यधिकृतगाथापश्चाई प्रकारान्तरेण व्याख्यायते यथा-मूलच्छेदः सर्वविरतेः तृतीयानामुये, देशविरतेईितीयानां, सम्यक्त्वस्य प्रथमानामिति । तेनापि देशविरत्यादौ नातिचाराभावस्तथाहि-यथा संज्वलनोदये सर्वविरतिरवाप्यते, तत्रातिचाराश्च भवन्ति, एवं प्रत्याख्यानावरणोदये देशविरतिस्तदतिचाराश्च, अप्रत्याख्यानोदये सम्यक्त्वं तदतिचाराश्च भवन्तु, न्यायस्य समानत्वात् । विचित्रो ह्युद्यः कषायाणां, ततोऽसौ गुणलाभस्याप्रतिबन्धकस्तदतिचाराणां च निमित्तं भवति, संज्वलनोदयवदिति । अन्ये पुनराहुः “सम्य|क्त्वदेशविरत्यतिचाराः क्रमेण प्रथमद्वितीयकषायोदयाद्भवन्ति, विचित्रो हि तदुदयो देशतः सर्वतश्च विराधनाया हेतुर्भवतीति । यश्च कुन्थुदृष्टान्तोऽसावसङ्गत एव, दृष्टान्तान्तरबाधितत्त्वात्तस्य, तथाहि-हस्तिनोऽतिलघुर्मनुष्यस्तस्य च व्रणादि संभवत्येवेति । यच्चोच्यते-अनन्तानुबन्ध्यादिकषायद्वादशकस्य सर्वघातित्वेनाभिधानात्तदुदये सम्यक्त्वादीनां भङ्ग एवेति, तद्युक्तम् , सर्वविरत्यपेक्षयैव सर्वघातित्वेन तस्य शतकचूर्णी व्याख्यातत्वात्, न तु सम्यक्त्वाद्यपेक्षमिति, तथा हि तद्वाक्यम्-"भगवयाप्पणीयं पंचमहव्वयमइअं अट्ठारससीलंगसहस्सकलियं चारित्तं घायंतित्ति सव्वघाइणो"त्ति ॥ ४१ ॥ तदेवं सम्यक्त्वे देशविरतो चाऽतिचारसम्भवोऽस्तीति प्रतिपत्तव्यं, तत्र सम्यक्त्वे प्रथमं तानाह
पश्चातिचाराः सम्यक्त्वे, हेयाः शङ्कनकालणे। विचिकित्सा कष्टीनां प्रशंसा तैश्च संस्तवः ॥४२॥ घ. से. १७18
Jain Educaton Inter
For Private & Personel Use Only
www.jainelibrary.org