________________
अनुगच्छति च कतिचित्पदानि, ततः खयं भुते । यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां दारावलोकनं करोति, विशुद्धभावेन च चिन्तयति-यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यमिति । एष पोषधपारणके विधिः । अन्यदा तु दत्वा भुङ्क्ते भुक्त्वा वा ददातीति । उमाखातिवाचकविरचितश्रावकमज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः, ततस्तेषां संविभागः कार्य इत्युक्तं, तथा च तत्पाठः "अतिथिसंविभागो नाम अतिथयः-साधवः साध्व्यः श्रावकाः श्राविकाच, एतेषु गृहमुपागतेष भत्तयाऽभ्यत्थानासनपादप्रमार्जननमस्कारादिभिरचयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदान संविभागः कार्यः” इति । एतदूताराधनायैव प्रत्यहं श्रावकेण "फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायछणणं पीढफलगसिज्जासंथारेणं ओसहभेसजेणं भयवं! अणुरगहो कायचो, इत्यादिना गुरूणां निमन्त्रणं क्रियते । एतद्बतफलं च दिव्यभोगसमृद्धिसाम्राज्यतीथेंकृत्पदादि श्रीशालिभदमलदेवाद्यन्तार्हदादीनामिव सर्व प्रसिद्धं, पारम्पर्येण मोक्षोऽपि फलमस्ति, वैपरीत्ये तु दास्यदौर्गत्याद्यपीति। अभिहितं चतुर्थ शिक्षापद्वतं, तदभिधाने च प्रतिपादितानि ससम्यक्त्वानि द्वादश श्रावकवतानि, तानि च विशेषतो गृहिधर्म इति योजितमेव ॥४०॥ अथ तच्छेषमतिचाररक्षणलक्षणं विशेषतो गृहिधर्म प्रस्तौति___ एषां निरतिचाराणां, पालनं शुद्धभावतः। पञ्च पञ्चातिचाराश्च, सम्यक्त्वे च प्रतिव्रते ॥४१॥ 'एषां सम्यक्त्वसहितदादशव्रतानां कीदृशानाम् ? 'निरतिचाराणाम् अतिचारा देशभङ्गाहेतवः आत्म
Jain Education id
For Private
Personel Use Only
W
ejainelibrary.org