SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ९५ ॥ Jain Education ननु यथा शास्त्रे आहारदातारः श्रूयन्ते, न तथा वस्त्रादिदातारः, न च वस्त्रादिदानस्य फलं श्रूयते तन्न वस्त्रादिदानं युक्तं नैवं, भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात्, यथा “समणे निग्गंथे फानुयएस णिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसिज्जासंधारएणं पडिला भेमाणे विहरति" इत्याहारवत्संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः, संयमोपकारित्वं च वस्त्रादीनां | यथोपपद्यते तथा यतिधर्माधिकारे वक्ष्यते । इह वृडोक्ता सामाचारी - श्रावकेण पोषधं पारयता नियमा त्साधुभ्यो दत्वा भोक्तव्यं, कथम् ? यदा भोजनकालो भवति, तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं च गत्वा साधून्निमन्त्रयते, 'भिक्षां गृह्णीतेति' साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते, तदैकः पटलमन्यो मुखा नन्तकमपरो भाजनं प्रत्युपेक्षते, माऽन्तरायदोषाः स्थापनादोषा वाऽभूवन्निति । स च यदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न गृह्यते, यतस्तोढव्यं भवति, यदि पुनर्धनं लगेत् तदा गृह्यते संस्थाप्यते च, यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा, तस्मै तद्दीयते । पश्चात्तेन श्रावकेण स संघाटको व्रजति, एको न वर्त्तते प्रेषयितुं, साधू पुरतः श्रावकस्तु मार्गे ( मार्गतो) गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशेते तदा भव्यं, अथ न निविशेते तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानं च खयमेव ददाति, भाजनं वा धारयति, स्थित एव वाऽऽस्ते यावद्दीयते, साधू अपि पश्चात्कर्मपरिहारार्थं सावशेषं गृह्णीतः ततो वन्दित्वा विसर्जयति, For Private & Personal Use Only संग्रह ।। ९५ ।। jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy