________________
Jain Education Inte
र्मादिदोषपरिहारायाशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतम् - अतिथिसंविभागव्रतं, आहारादीनां च न्याया र्जितानां प्रासुकैषणीयानां कल्पनीयानां च देशका लश्रद्धासत्कारक्रमपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानमित्यर्थः । तत्र शाल्यादिनिष्पत्तिभागो देशः १ सुभिक्षदुर्भिक्षादिः कालः २ विशुद्धश्चित्तपरिणाम: श्रद्धा ३ अभ्युत्थानासनदानवन्दनानुवजनादिः सत्कारः ४ यथासम्भवं पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः ५ तत्पूर्वकं देशकालाद्यौचित्येनेत्यर्थः । यदृचुः – “ नायागयाणं कप्पणिजाणं अन्नपाणाईनं दुव्वाणं देसकालस | द्वासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाण दाणं अतिहिसंविभागो" अनूदितं चैतत् श्रीहेमसूरिभिः - " प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेषणीयैः, कल्पप्रायैः खयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमविहिता हन्त सन्मानयन्ति ॥ १ ॥ अशनमखिलं खायं खायं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोच्छनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ॥ २ ॥” तथा “साहूण कप्पणिज्जं, जं नवि दिन्नं कहिंचि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजन्ति ॥ ३ ॥ वसहीसयणासणभत्तपाणनेसजवत्थपायाई । जइवि न पज्जत्तधणो, थोवाविहु धोवयं दिजा ॥ ४ ॥" वाचकमुख्यस्त्वाह - "किश्चित् शुद्धं कल्प्यमकल्पयं स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा ॥ १ ॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं, नैकान्तात्कल्पते कल्प्यम् ॥ २ ॥” ।
For Private & Personal Use Only
jainelibrary.org