________________
Jain Education
कोऽपि देशसर्व भेदाद्विधेत्यष्टधा, तत्राहारपोषधो- देशतो विवक्षितविकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानं १, शरीरसत्कारपोषधोदेशतः शरीरसत्कारस्यैकतरस्याकरणं, सर्वतस्तु सर्वस्यापि तस्याकरणं २, ब्रह्मचर्यपोषधोऽपि देशतो दिवैव || रात्रावेव सकृदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणं, सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनं ३, कु(अ) व्यापार पोषधस्तु- देशत एकतरस्य कस्यापि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषां कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणं ४ । इह च देशतः कुव्यापारनिषेधे सामायिकं करोति वा न वा, सर्वतस्तु कुव्यापारनिधेषे नियमात्करोति सामायिकं, अकरणे तु तत्फलेन वञ्च्यते, सर्वतः पोषधव्रतं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां वा त्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते, तत्र च कृते पठति, पुस्तकं वाचयति, धर्मध्यानं ध्यायति, यथा- एतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति आवश्यकचूर्णिश्रावकप्रज्ञप्तिवृत्त्याद्युक्तो विधिः । योगशास्त्रवृत्तौ त्वयम|धिकस्तथाहि - "ययाहारशरीरसत्कारब्रह्मचर्यपोषधवत्कुव्यापारपोषधमप्यन्यत्राना भोगेनेत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते, तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात्पोषधप्रत्याख्यानस्य, सूक्ष्मत्वाच सामायि - कव्रतस्येति । तथा पोषधवताऽपि सावद्यव्यापारो न कार्य एव ततः सामायिकमकुर्वस्तल्ला भाछ्रश्यतीति, यदि पुनः समाचारीविशेषात्सामायिकमिव द्विविधं त्रिविधेनेत्येवं पोषधं प्रतिपद्यते, तदा सामायिकार्थस्य
For Private & Personal Use Only
w.jainelibrary.org