________________
PAL
धर्म
संग्रह.
॥८७॥
आहारतनुसत्काराब्रह्मसावद्यकर्मणाम् । त्यागः पर्वचतुष्टय्यां, तद्विदुः पौषधवतम् ॥ ३९ ॥ पर्वचतुष्टयी अष्टमीचतुर्दशीपूर्णिमाअमावास्यालक्षणा तस्यां, आहार-प्रतीतः तनुसत्कारः-स्लानोद्वर्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्रादिः अब्रह्म-मैथुनं सावद्यकर्म-कृषिवाणिज्यादि एतेषां यस्त्यागस्तत्पौषधव्रतं विदुर्जिना इत्यन्वयः। यतः सूत्रम् "पोसहोववासे चउविहे पण्णते तंजहा-आहारपोसहे, सरीरसक्कारपोसहे, बंभचेरपोसहे, अव्वावारपोसहे"त्ति । तत्र पोषं-पुष्टिं प्रक्रमाद्धर्मस्य धत्ते इति पोषधः, स एव व्रतं पोषधव्रतमित्यर्थः, पोषधोपवास इत्यप्युच्यते, तथाहि-पोषध उक्तनिर्वचनोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेनोपवसनम्-अवस्थानं पोषधोपवासः, अथवा पोषधः-अष्टम्यादिपर्वदिवसः उपेति सह उपावृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वास उपवासः, यथोक्तम्-"उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो, न शरीरविशोषणम् ॥१॥” इति, ततः पोषधेषूपवासः पोषधोपवासः, आवश्यकवृत्तावित्थं व्याख्यातत्वात् , तथाहि "इह पोषधशब्दो रूढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्व धर्मोपचयहेतुत्वादित्यर्थः, पोषधेपूपवसनं पोषधोपवासः नियमविशेषाभिधानं चेदमिति" इयं च व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारादिचतुष्कवर्जनेषु, समवायाङ्गवृत्तौ श्रीअभयदेवसूरिभिरेवमेव व्याख्यातत्वात् । पौषधश्चाहारशरीरसत्काररब्रह्मचर्याश्व्यापार४भेदाचतुर्दा, एक
Jain Education in
For Private & Personel Use Only
Wjainelibrary.org