SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 25 -05-05- | पौषधशालायां खगृहे वा सामायिक गृहीत्वा तत्रैवाऽऽस्ते, तदा गमनं नास्ति, यस्तु राजादिमहर्द्धिकः स| गन्धसिन्धुरस्कन्धाधिरूढच्छत्रचामरादिराज्यालङ्करणालङ्कतो हास्तिकाश्वीयपादातिकरथकव्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनभस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमल: पौरजनैः सश्रद्धमङ्गल्योपदश्यमानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञलिवन्धान लाजाञ्जलिपातान् शिरप्रणामाननुमोदमानः अहो धन्यो धर्मो य एवंविधैरुपसेव्यते इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरो|पानन्मुकुटखगरूपाणि परिहरति, आवश्यकचूर्णी तु-"मउडं न अवणेइ, कुंडलाणि णाममुदं पुप्फतम्बोलपावारगमादि वोसिरइत्ति” भणितं, जिनार्चनं साधुवन्दनं वा करोति, यदि त्वसौ कृतसामायिक एव गच्छेत्तदा गजाश्वादिभिरधिकरणं स्यात्, तच न युज्यते कर्नु, तथा(कृत) सामायिकेन पादाभ्यामेव गन्तव्यं, तच्चानुचितं भूपतीनाम्, आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्थानादि करोति, अथ यथाभद्रकस्तदा पूजा कृताऽस्तु इति पूर्वमेवासनं मुश्चति, आचार्याश्च पूर्वमेवोत्थिता आसते, मा उत्थानानुत्थानकृता दोषाः अभूवन्निति, आगतश्चासौ सामायिकं करोतीति पूर्ववत् । एतद्भतफलं च बहुनिर्जरारूपम् , |अन्यदपि च, यदाहु:-"दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडिअं एगो । इअरो पुण सामइअं, करेइ जान पहुप्पए तस्स ॥१॥ सामाइअं कुणंतो, समभावं सावओ अ घडिअदुगं । आउं सुरेसु बंधइ, इत्तिअ युत्थानादि कामा उत्थानातरूपम् | 11-05 25% Jain Education For Private Personal Use Only Jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy